Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
श्रीपूर्वाचार्यविरचितम् अथ श्रीमानतुंगसूरिः श्रीपार्श्वनाथस्य रोगभयापहारिता-लक्षणं माहात्म्यं वर्णयन् गाथा युगलमाह
सडिय-कर-चरण-नह-मुह-निबुडुनासा विवष्णलावण्णा । कुहमहारोगानल-फुलिंगनिद्दडसव्वंगा ॥२॥ ते तुह चलणाराहण-सलिलंजलिसेयबुड्डियच्छाया।
वणदषदड्डा गिरिपा-यव व्व पत्ता पुणो लच्छि ॥३॥ व्याख्याः-हे श्रीपाश्च! ये पुरुषाः सडिअकरचरणादिरोगवन्तोऽपि प्राणिनः स्युः तेऽपि पुरुषाः पुनः लक्ष्मी प्राप्ताः इत्युक्तिः । किंविशिष्टा ? ये पुरुषाः ‘सडिअकरचरणनहमुहनिबुडुनासा' करौ च हस्तौ, चरणौ च पादौ, नखाश्च प्रसिद्धाः, मुखं च वदनं, तेषां प्राण्यंगत्वात् द्वन्द्वे कृते करचरणनखमुखं शटितं वहन् पूयरसं करचरणनखमुखं येषां ते शटितकरचरणनखमुखाः । तथा 'निबुड्डा' निमग्ना निविष्टा नासा नासिका येषां ते. निबुड्डुनासाः । ततो विशेषेण कर्मधारयः शटितकरचरणनखमुखाश्च ते निममनासाश्च श० । पुनः किंविशिष्टा ये पुरुषाः ? 'विवण्णलावण्णा', विपन्नं विवर्ण वा लावण्यं लवणिमा येषां ते विपन्नलावण्याः। पुनः किंविशिष्टा ये पुरुषाः ? 'कुष्टमहारोगानलस्फुलिंगनिर्दग्धसर्वांगाः' कुष्ट गलत्कुष्टादिभेदभिन्नं तदेव यो महारोगः रसायनैः सूर्यादिदैवतैश्च निवर्तयितुं अशक्यत्वात् । गरीयान् व्याधिविशेषः स संतापजनकत्वात् 'अनल इव' अग्निरिव उपमेयं व्याघ्राद्यैः सामान्यानुक्ताविति समासे कृते कुष्टमहारोगानलः तस्य स्फुलिंगा अग्निकणाः पीडोद्भवप्रकारास्तैर्निर्दग्धानि गाढं प्लुष्टानि सर्वाणि अंगानि देहावयवा येषां ते कु० । पुनः किंविशिष्टास्ते पुरुषाः ? 'तुहचलणाराहणसलिलंजलिसेयवुड्डियच्छाहा' । तव चरणाराधनसलिलांजलिवर्धितच्छायाः चरणयोः आराधना सेवा सा एव सलिलांजलि: जलपरिपूरितः कुन्जितपाणिद्वयरूपो हस्तन्यासविशेषः तेन सेकः सेचनं तेन वर्धितावृद्धि नीता छाया-शोभा येषां ते० । केचित् पुनः “वडिउच्छाहा" इति पाठं पठन्ति । तत्र पुरुषपक्षे उत्साहः प्रतिक्षणं पाटवोद्भवः, वृक्षपक्षेषु उत्साह किसलयादिक्रमेण उद्भवा अभिमुख्यं इति, एवंविधाः सतः पुनर्लक्ष्मी प्राप्ताः । तत्र उपमानमाह-के इव गिरिपादपा इव पर्वतवृक्षा इव । किंविशिष्टा गिरिपादपाः ? 'वणदवदवा' वनस्य दवो दावाग्निस्तेन दग्धा वनदवदग्धाः यथा पर्वतवृक्षाः दावाग्निदग्धा अपि जलांजलिभिः सेच्यमानाः पुनरपि लक्ष्मी शाखाप्रशाखापत्रपुष्पफलादिसमृद्धि प्राप्नुवन्ति । तथा शटितकरचरणादिकुष्टादिरोगग्रस्तदेहा अपि पुरुषाः तव चरणाराधनाप्रभावात् पुनर्नवतां प्राप्नुवन्तीत्यर्थः । ननु दवशब्देन वनवहिरेवोच्यते । किमर्थ वनशब्दप्रयोग इत्युच्यते-सत्यं परमत्र वनशब्दः दवेन सह सम्बन्धातिशयसंख्यापठनार्थः । यथा कर्णवतंसशिरःशेखरादयः। ननु सिद्धान्ते सलिलानलादीन् षोडशभयानि प्रोक्तानि । अत्र तु रोगजलजलणेति' गाथायां अष्टावेव भयानि उक्तानि तत् कथं ? उच्यते यद्यपि अष्टौ उक्तानि ततो अन्यानि एतेष्वेवं अष्टसु यथासंभवं अन्तर्भावनीयानि । पुनः प्राह शिष्यः-ननु पूर्व उद्देशस्ततो निर्देशः इति शास्त्रन्यायः । अत्र तु पूर्व सडिअकरचरणे ति गाथायां निर्देश उक्तः पश्चात्तु रोगा जलजलणेति गाथायां वक्ष्यमाणायं उद्देशः। तत्कथं घटते ? उच्यते-नायं नियमो यः पूर्व उद्देशस्ततो निर्देशः। इयं तु शास्त्रशैली वर्तते परं अन्यथापि दृश्यते । श्रीमानतुंगसूरिणा "भक्तामरस्तोत्रेऽपि" पूर्व श्योतन्मदाविलेत्यादि (३४) गाथानामष्टकेन पूर्व निर्देशः कृतः, पश्चात्तु 'मत्तद्विपेन्द्रेत्यादि' (४३) काव्ये उद्देशः कृत इति ॥२॥३॥ अथ गाथायुगलेन जलभयापहारमाह
दुव्वायखुभियजलनिहि-उन्भडकल्लोलभीसणारावे । संभंतभयविसंठुल-निज्जामयमुकवावारे ॥४॥
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59