Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्वाचार्यविरचितम् मेषत्वेन सदा विकस्वराणि नेत्रोत्पलानि यासां ताः फुल्लने०, स्ताभिः । पुनः किंविशिष्टाभिः सुररमणीभिः स्तनभरनम्राभिः,स्तनयोः कुचयोर्भरः प्राग्भारो गुरुत्वं तेन नता नम्रास्ताभि स्तन०। अत्र “शीलाद्यर्थस्येरः"(पा. २।१४५ पृ. ७७) अनेन शीलाद्यर्थस्येरप्रत्ययस्य इरादेशः । पुनः किं० सुररमणीभिः ? मुष्टिग्राह्योदरीभिः मुष्टिना ग्राह्यं उदरं यासां ता मुष्टिग्राह्योदरास्ताभिः । पुनः किं० सुर० ? ललितभुजलताभिः, ललिते-मनोहरे भुजलते ययोस्ता ललितभुजलतास्ताभिः । पुनः किं० सुर० ? पीनश्रोणिस्थलीभिः, पीना उपचिता श्रोणिस्थली-कटितटी यासां ताः पीनश्रोणिस्थलीभिः, लतास्थली शब्दौ शोभावचनौ ॥१४॥ अथ मोक्षहेतोः संयमस्य विघ्नरूपा ये रोगास्तेषां अपहारं प्रार्थयन्नाहअरिसकिडिभकुटरगंठिकासाइसार-क्खयजरवण-लूआ-साससोसोदराणि । नह-मुह-दसणच्छीकुच्छिकन्नाइरोगे, मह जिणजुअपाया सुप्पसाया हरंतु ॥१५॥ व्याख्या-'जिनजुगपादाः' मम एतान् रोगान् हरन्तु । जिनयोः-अजितशान्त्योर्युग-युग्मं तस्य पादाश्चरणाः जिनयुगपादाः। किंविशिष्टाः पादाः ? सप्रसादाः-प्रसत्तिसहिताः। ते के रोगा इत्याह-अर्शो गुदाकुरः १ । 'किडिभो' जंघाचरणसंधिभावी रोगविशेषः २ 'कुष्टं त्वग्विकारो रोगविशेषः ३ । प्रन्थिर्वातरक्तोद्भवो मांसोपचयः ४। कासः ५ अतिसारश्च एतौ द्वौ प्रसिद्धौ ६ । क्षयो धातोरपचयः ७ । ज्वरस्तापः ८ । व्रणो-गण्डो अष्टाविंशतिभेदभिन्नः ९ । लता दुष्टस्फोटिका १० श्वासः-श्वासातिरेकः ११ शोषः कंठौष्ठताल्वादिशोषः १२ । उदरं-उदररोगो जलोदरादिः १३। अत्रेतरेतरसमासकरणे अशःकिडिभकुष्ठप्रन्थिकासातिसारक्षयज्वरव्रणलताश्वासशोषोदराणि इति तानि | पुनः-नखमुखदशनाक्षिकुक्षिकर्णादिरोगान् हरन्तु। नखाश्च मुखं च दशनाश्च अक्षिणी च कुक्षिश्च की च नखमुखदशनाक्षिकुक्षिकर्णाः, ते आदिर्येषां ते नवमुखदशनाक्षिकुक्षिकर्णादयः, तेषां रोगाः नख० कर्णादिरोगास्तान् । अत्र नखा नखराः। मुख वदनं । दशनादन्ताः । अक्षिणी-नेत्रे । कुक्षिर्जठरं । कर्णौ-श्रोत्रे ॥१५॥ अथ इदं स्तोत्रं सर्वश्रेयस्करं सर्वविघ्नहरं अतो भो भव्या अस्मिन् स्तोत्रे पठनपाठनश्रवणश्रावणादिना यूयं प्रवर्तध्वं इति भव्यान् प्रति आहइय गुरुद्हतासे पक्खिए चाउमासे जिणवरदुगथुत्तं वच्छरे वा पवित्तं । पढह सुणह सिझाएह झाएह चित्ते, कुणह मुणह विग्धं जेण घाएह सिग्घं ॥१६॥ ____ व्याख्या-भो भव्याः यूयमिति शेषः । इदं जिनवरद्विकस्तोत्रं पठत पट्टिकादौ लिखित्वा अधीत १ जिनवरयोः-श्रीअजितशान्त्योद्विकं युग्मं जिनवरद्विकं, तस्य स्तोत्रं स्तवनं जिनवरद्विकस्तोत्रं, पुनयूयं शृणुत सूत्रतोऽर्थतश्च कथ्यमानं आकर्णयत २ । पुनयूयं स्वाध्यायतो विकथात्यागेन गुणयत ३ । पुन!यं ध्यायत पदार्थादि चिन्तनेन स्मरत ४ । पुनयूयं मनसि कुरुत आर्द्ररौद्रध्यानपरिहारेण विधत्त ५। पुनः यूयं मुणह तत्त्वार्थतो जानीत ६ । कस्मिन् प्रस्तावे विशेषेन इदं पठनीयं इत्याह-पक्षे' भवं पाक्षिक तस्मिन् पाक्षिकपर्वणि इत्यर्थः । पुनः चतुर्मासेषु भवं चातुर्मासिकं । पुनः वत्सरे-पर्युषणापर्वणि इत्यर्थः । 'वा' समुच्चये । किं विशिष्ट पाक्षिके चातुर्मासिके संवत्सरे वा पर्वणि, गुरुदुःखत्रासे गुरुदुःखानि-अनेकभवोपार्जितानि असातानि तानित्रासयति नाशयतीति दुःखंत्रास तस्मिन् । एतत् स्तोत्रपठने हेतुमाह-येन स्तोत्रपठनादिना कारणेन यूयं विघ्नं घातयत विनाशयत कथं शीघ्रं झटिति पठनानन्तरमेव इत्यर्थः ॥१६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59