Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ઢ श्री पूर्वाचार्यविरचितम् व्याख्या- 'तावत्' तावतं कालं मोहान्धकारं प्रसरति । मोह एव पुत्रमित्रकलत्रादिषु स्नेह एव मोहनीयं कर्म वा अंधकारः मोहान्धकारः प्रसरति व्याप्तिं करोति १ । पुनः तावत् जगत् भुवनं असन्नं असंज्ञं भ्रमति विपरीतं प्रवर्तते, न विद्यते संज्ञा धर्माधर्मादिविशिष्टविज्ञानरूपाः यस्मिन् तत् असंज्ञं । किंविशिष्टं जगत् ‘मिच्छत्तछन्नं’ मिथ्यात्वेन छन्नम् आच्छादितं मिथ्यात्वछन्नं । तावत् किं यावत् इत्याह- 'अजितसंतीज्ञाणसूरो जाव न फुरइ' अजितशान्त्योर्ध्यानमेव शुक्लध्यानमेव सूरः सूर्यः यावन्न प्रकटं स्फुरति, न उदेति उदयं करोति । किंवि० अजितशान्तिध्यानसूर : 'फुडफलंताणंतनाणंसुपूरो' 'स्फुट' व्यक्तं फलत् उल्लसत् अनन्तज्ञानमेव केवलज्ञानमेव अंशूनां किरणानां पूरः समूहो यस्य सः स्फुटफलदनन्तज्ञानांशुपूरः । अयं फलितार्थ: त्रैलोक्ये महान्धकारं तावत्प्रसरति, पुनः जगत् असंज्ञं मिथ्यात्वछिन्नं सत् तावत् भ्रमति यावदजितशान्तिध्यानसूर्यो न स्फुरति । तस्मिन् स्फुरति एतद्द्वयमपि न स्यादित्यर्थः ॥९॥ Acharya Shri Kailassagarsuri Gyanmandir अथ भगवतोः वर्णनामाहात्म्यमाह अरि-करि-हरि-तिण्डु-हंबु- चोरा-हि-वाही, समर डमर - मारी-रुद्द खुद्दोवसग्गा । पलयमजियसंती कित्तणे झत्ति जंती, निबिडतरतमोहा भक्खरालुंखि अन्व ॥ व्याख्या–अजितशान्तिकीर्तने सति अरिकरिहरितृष्णोष्णांबुचौराधिव्याधिसमरडमरमा रीरौद्रक्षुद्रोपसर्गाः प्रलयं यान्ति । 'झत्ति' इति शीघ्रं क्षयं गच्छन्ति, अरयः शत्रवः १ करिणो हस्तिनः २ हरयः सिंहाः ३ तृष्णा पिपासां ४ उष्ण-आतपः ५ अम्बु- जलं ६ चौरास्तस्कराः ७ आधयो - मनोजनितपीडाविशेषाः । व्याधयो --ज्वरभगंदरादयः समरः - संग्रामः उमरो - राजकृतोपद्रवः । मारिः - कुपितपिशाचादिकृतप्राणिक्षयः, रौद्रक्षुद्रोपसर्गाः भयानकक्रूराशयव्यन्तरादिकृतोपद्रवाः । तत एतेषां पदानां इतरेतरद्वन्द्वः समासः कार्यः । अत्रोपमानमाह - क इव प्रलयं यान्ति 'निविडतरतमओघा इव' अतिनिविडतरं अतिगाढं यत्तमोऽन्धकारं तस्य ओघाः समूहाः निविडतरतमओघाः । किंविशिष्टा नि० ? 'भक्खरालुंखियग्व' भास्करेण सूर्येण 'आलुंखिताः ' स्पृष्टाः भास्क रालुंखिताः । अत्र रपृशधातो: “फासेति सूत्रेण आलुंखादेशः " [पृ-१७६ ] स अत्र इव शब्दो विशेषेण पदादये न्यस्तोपि विशेष्यपदात्परो योज्यः ॥ १० ॥ अथ भगवतो रुपस्थध्यानद्वारेण स्तुतिमाह निचिअदुरिअदारुद्दित्तझाणग्गिजाला, परियमिव गोरं चितिअं जाण रूवं । कणयनिहसरेहाकं तिचोरं करिज्जा, चिरथिमिह लच्छि गाढसंथंभियव्व ॥ ११ ॥ व्याख्या-ययोः अजितशान्तितीर्थंकरयोः रूपं चिन्तितं ध्यातं सत्, इह जगति लक्ष्मीं कुर्यात् । पुनः किंविशिष्टां लक्ष्मीम् ? चिरस्थिरां चिरकालं निश्चलाम्, कामिव ? गाढं संस्तभितां इव, गाढं अत्यर्थं संस्तभितां सम्यक् नियन्त्रित इव । यथा पाञ्चालिका नाराचादिना गाढं नियंत्रिता सती चिरं स्थिरा भवति, एवं ययो रूपध्यानात् लक्ष्मीः स्थिस भवतीत्यर्थः । किंविशिष्टं रूपं ? कनकुनिकषरेखाकान्तिचौरम् | कनकस्य स्वर्णस्य निकषः कषपट्टः तत्र तस्य वा रेखा तस्याः कान्तिः द्युतिस्तां चोरयति - अनुकरोति यत्र तत् क० । अत्र गौरवे उत्प्रेक्षामाह । इवोत्प्रेक्षते - 'निचिअदुरिअदारुद्दित्तझाणग्गिजालापरिंगयं' निचितानि अनेकभवशतसहस्रेषु सं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59