Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्वाचार्यविरचितम् ____ व्याख्या-अहमिति शेषः । तौ अजितशान्ती सततं अभिवन्दे सर्वांदरेण स्तुवे । किं विशिष्टौ अजितशान्ती ? नमिरसुकिरीडुग्घिट्टपायारविंदे नम्राः नमनशीला ये सुरा वैमानिकादयः तेषां किरीटानि मुकुटानि तैः उद्धृष्टे उत्तेजिते पादारविन्दे चरणकमले ययोस्तौ । तौ को जाणं इति ययोर्नाममात्रेण गृहीतेनेति शेषः । 'दुट्टाणिट्ठदोघट्टघट्ट लहु विहडई' । दुष्टानि दुःखदायीनि, अनिष्टानि प्रियविप्रयोगादीनि तान्येव 'दोघट्टा' हस्तिनः तेषां 'घट्ट' समूहः दुष्टानिष्टदोघट्टघट्ट, प्राकृतत्वान्नपुंसकता 'लघु' शीघ्रं विघटते, जाणं इत्यत्र प्राकृतत्वात् द्विवचने बहुवचनं । किं विशिष्टौ यौ ययोः सकलजगहितयो सकलस्य जगतः हितौ हितकारको सकलजगद्धितौ तयोः स० ॥४॥ अथ ग्रन्थकारः भगवतोः चरणभक्तिप्रभावं दर्शयन्नाहपसरह वरकित्ती वड्डए देहवित्ती, विलसह भुवि मित्ती जायए सुप्पवित्ती। फुरइ परमत्तित्ती होइ संसार छित्ती, जिणजुअपयभत्ती ही अचिंतोरुसत्ती॥५॥ व्याख्याः-'हि' इति आश्चर्ये । 'जिनजुअपयभत्ती' अचिंत्योरुसत्ती वर्तते इति इति शेषः । 'जिनयोः' अजितशान्त्योः 'युग' युग्मं तस्य पादास्तेषां भक्तिरान्तरप्रीतिः अचिन्त्योरुशक्तिः अचिन्त्या चिन्तयितुं अशक्या उर्वी गरिष्ठा शक्तिः सामर्थ्य प्रभावो यस्यासौ सा अचित्त्योरुशक्तिः कथं ज्ञायते जिनपदभक्तिः अचिन्त्योरुशक्तिः वर्तते । तत्राह-यत्प्रभावात् एतत् षट्कं भवति तत्किं इत्याह-'जिनयुगपादभक्तित' इति सर्वत्र गम्यं । वरकीर्तिः प्रधानयशः प्रसरति विस्तारं गच्छति १ । पुनः 'देहदीप्तिः' शरीरकान्तिर्वर्धते २ । पुनः भुवि पृथिव्यां मैत्रीप्राप्तिः विलसति ३ । पुनः सुप्रवृत्तिर्जायते ४ । पुनः परमतृप्तिः परमसन्तोषः स्फुरति उल्लसति ५। पुनः संसारछित्तिः भवच्छेदो भवति ६ ॥५॥ अथवा देवांगनानां विषये नृत्यपूजाप्रतिपादनद्वारेण स्तुतिमाहललिअपयपयारं भूरिदिव्वंगहारं, फुडघणरसभावो-दारसिंगारसारं। अणिमिसरमणिजहंसणव्छेअ भीआ, इव पणमणमंदा कासी नहोवहारं ॥६॥ व्याख्याः-अत्र अग्रेतनगाथास्थं 'थुणह अजिअसंती' इति तच्छब्दप्रधानं वाक्यं संबध्यते । ततश्च भो भव्या यूयमिति शेषः । तौ अजितशान्ती यूयं स्तुत वर्णयतः, यत्तदोनित्याभिसम्बन्धात् । तौ को ? जहंसणच्छेअभीया इव पणमणमन्दा अणिमिसरमणी कासि नट्टोवहारं इति सम्बन्ध । 'अणिमिसरमणी नट्टोवहारं कासि', अनिमिषाः देवास्तेषां रमण्यः स्त्रियः नृत्येन निवर्तनेन उपहारः पूजानृत्योपहारस्तं अकार्षः कृतवन्तः रमणी इत्यत्र प्राकृतत्वात् विभक्तिलोपः । किं विशिष्टा रमण्यः ? प्रणमणमंदाः प्रणमने नीचैनमने मन्दा अलसाः । किं नर्तक्यः ? प्रायः संमुखं अवलोकयन्त्य एव नृत्यं कुर्वन्तीति स्वभावः । ततः कविना उत्प्रेक्षते स्वभावतो न प्रणमनमन्दा । किन्तु यर्दशनच्छेदभीता इव ययोर्दर्शनं यद्दर्शनं अजितशान्त्योः अवलोकन भवशतेष्वपि दुःप्रापं तस्य छेदः अन्तरायस्ततो भीता इव चकिता इव, भूयोऽपि दुर्लभं भगवत्दर्शनं इति तदन्तरायं प्रणामकालभाविनमपि असह इत्यर्थः। किं विशिष्टं नृत्योपहारम् ? ललितपदप्रचारं ललिता रमणीयाः पदानां प्रचारा चरणानां न्यासा यत्र तं ल०। पुनः विशिष्ट नृत्योपहरणम् 'भूरि दिव्यंगहारं' भूरयः-प्रभूता दिव्याः-परमोत्कृष्टा-'अंगहारा' अंगविक्षेपा यत्र स तं भू० ॥ पुनः किं विशिष्टं नृत्योपहारं ? स्फुटरसघनभावोदारशृगारसारं । स्फुटो व्यक्तः प्रकटः घनः सान्द्रः योऽसौ रसः शृंगारः भावो रतिः । ततः स्फुटघनरसभावौ ताभ्यां उदारो योऽसौ शृंगारो विभूषाप्रकारस्तेन सारः प्रधानः तं स्फुट०। भावशृंगाररसाभ्यां बन्धुरमित्यर्थः ॥६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59