Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तयम्.
१५
स्ताराः तेषां छलं व्याजस्तेम उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलं तेन उ० । अम्योऽपि यो मार्ग दर्शयति सः तस्य अभिमुखं दण्डादिकं व्यापार्य दर्शयति । एवं भगवतां अपि ऊर्ध्वोत्थसत्पदनख किरणदण्डौ प्रणाम कुर्वतः प्रति मुक्तिमार्गं ऊर्ध्ववर्तमानं दर्शयतः । पुनः किं० विशिष्टौ द्वि० । 'नीहं (णं ) तनाणंकुरु' ज्ञानस्य अङ्कुरा ज्ञानांकुराः तेषां उत्करः समूहः ज्ञानांकुरोत्करः निर्यन् निर्गच्छन् चासौ ज्ञानांकुरोत्करश्ध निर्यत् ज्ञानांकुरोकरो यकाभ्यां तौ नि० । कस्मात् ? कुन्देंदूज्वलदन्तकांतिमिर्षतः । कुन्दं माध्यं इन्दुश्चन्द्रः तयोरिव उज्वलाः शुभ्रा - ये दन्ताः तेषां कान्तिः प्रभा तस्या मिषं व्याजः तस्मात् कुंदेंदूज्वलदन्तकान्तिमिषतः । एतेन भगवतो ज्ञानक्षेत्रत्वं उक्तम् ॥१॥
अथ श्रीजिनवल्लभसूरिः भगवत्स्तुतौ असामर्थ्यं दर्शयन्नाह -
चरमजलहिनीरं जो मिणिज्जंऽजलीहिं, खयसमयसमीरं जो जिणिज्जा गईए । सयलनहयलं वा लंघए जो पएहिं, अजियमह व संतिं सो समत्थो धुणेउं ॥ २॥
व्याख्याः सः अजितं द्वितीयं जिनं, अथवा इति समुच्चये । शान्तिं षोडशं जिनं 'धुणेउं' स्तोतुं समर्थः स्यात् । यत्तदोर्नित्याभिसम्बन्धात् । सः कः यः एतत् त्र्यं कर्तुं समर्थो भवति । किं तत् त्रयमित्याह-य: 'चरमजल - धिनीरं', स्वयंभूरमण समुद्रपानीयं अञ्जलीभिः प्रसृतिभिः मिनुयात् । एतावत् प्रमाणं अस्यास्ति इति कुर्यात् ' । पुनर्यः 'क्षयसमयसमीरं' प्रलयकालवातं । कया - गत्या पादक्रमणेन जयेत् । क्षयसमयस्य क्षयकालस्य यः समीरः क्षयसमयसमीरस्तं अन्योपि वातो गत्या जेतुं न शक्यते किं पुनः क्षयसमयसमीरः २। पुनर्यः सकलनभस्तलं–सर्वाकाशमण्डलं पादाभ्यां लंघयेत् ३ । अयं भावः न केनापि यथा एतत् त्रयं कर्तुं शक्यते, तथा भगवत्स्तुतिं कर्तुमपि न केनापि शक्यते इत्यर्थः ॥२॥
ननु यदि भगवत्स्तुतिकरणे सामर्थ्याभावोऽदर्शितस्तदा कथं स्तुतिकरणमारब्धं इत्याहतहविहु बहुमानुल्लासिभत्तिन्भरेण, गुणकणमवि कित्तिहामि चिंतामणिव्य । अलमहव अचिंताणंतसामत्थओ सिं, फलिहह लहु सव्वं वंछिअं निच्छियं मे ॥३॥
व्याख्याः - यद्यपि भगवतः एकोऽपि गुणः सामस्त्येन वर्णयितुं न शक्यते, तथापि अहं श्रीअजितशान्तितीर्थंकरयोरिति शेषः । ‘गुणकणमपि गुणानां कणः गुणकणस्तं गुणकणं गुणलेशमपि कीर्तयिष्यामि | केन 'बहुमाणुल्ला सिभत्तिब्भरेण' । बहुमानं आन्तरप्रीतिविशेषस्तेनोल्लासिनी प्रवर्धमाना या वा भक्तिः शिरोनमनांजलिबन्धादिरूपा तस्या भरः प्राग्भारस्तेन वहुमानोल्लासिभक्तिभरेण न तु गुणलेशः स्तवनेन, स किं भविष्यतीत्याह'चिंतामणिमिव' चिंतामणिसदृशं । यथा स्वल्पोऽपि चिन्तामणिः स्तुतः सन् सर्वसमीहितं पूरयति, तथा भगवद्गुणलेशोऽपि इत्यर्थः । अथवा 'अलं' सृतं एतन्मम प्रारब्धं सेत्स्यति न वेति विचारेण इति गम्यते । कुतः ? इत्याह-'फलिप्यति' संपत्स्यते मम वांछितं 'सर्व' समस्तं आस्तां स्तवकरणमात्रं अन्यदपि सेत्स्यतीति ॥ 'लघु' शीघ्रं, निश्चितं निःसंदेहं कस्मात् अचिन्त्यानन्तसामर्थ्यतः अचिंत्यं चितयितुं अशक्यं यत् अनंतं सामर्थ्यं प्रभावः अर्चित्यानंतसामर्थ्यं तस्मात् अचिंत्यानंतसामर्थ्यात् कयोरित्याह 'सिं' इति तयोः अजितशान्तिजिनयोः । अत्र इदम् शब्दस्य षष्ठीबहुवचने सिं इति आदेशः तत्सूत्रं तु प्राकृतव्याकरणे द्रष्टव्यम् ॥३॥
अथ स्तोत्रकर्ता भगवन्नाममात्रस्यापि प्रभावातिशयं दर्शयन्नाह - भगवत्प्रणामं कुर्वन्नाह - सपल जयहिआणं, नाममित्तेण जाणं, बिहडइ लहु बुद्वाणिद्ववोध । नमिर सुरकिरीडुग्धिपायारविंदे, सययमजिअसंती ते जिनं भिदे ॥४॥
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59