Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
सप्तस्मरणस्तवम्चितानि उपार्जितानि यानि दुरितान्येव दुष्कृतान्येव दारूणि काष्ठानि तैः उद्दीप्तः उज्ज्वालितो यो ध्यानामिः तस्य ज्वाला तया परिगत-व्याप्तं, काकुवचनं कार्यम् ॥११॥ अथ पुनर्भगवतोया॑नस्य फलदर्शनद्वारेण स्तुतिमाहअडविनिवडियाणं पत्थिवुत्तासिआणं, ।
जलहिलहरिहीरंताण गुत्तिहिआणं । जलिअजलणजालालिंगियाणं च झाणं,
जणयह लहु संती संतिनाहाजियाणं ॥१२॥ __ व्याख्या-शान्तिनाथाजितयोर्ध्यान-संस्मरणं ध्यानकारकाणामिति अर्थात्-गम्यं 'लहु' शीघ्रं 'शान्ति' शिव जनयति-करोति । किंविशिष्टानां ध्यानकारकाणां ? 'अटवीनिपतितानां' अटव्यां-अरण्ये सार्थभ्रष्टतादिकारणात् निपतिताना-संस्थितानां । पुनः केषांचित् ध्यानकारकाणां पार्थिवोत्रासितानां पार्थिवैः स्वकीयपरकीयनृपैः उत्त्रासितानां भापितानाम् । पुनः केषांचित् ध्यानकारकाणां जलधिलहरिहियमाणानां प्रवहणे भग्ने सति समुद्रान्तःपाते सति समुद्रकल्लोलैरितस्ततः प्रेर्यमाणानां । पुनः केषांचित् 'गुप्तिस्थितानां' गुप्तौ कारागारे स्थितानां प्रक्षिप्तानां ।पुनः केषांचित् तेषां ज्वलितज्वलनज्वालालिंगितानां ज्वालितश्चासौ दीप्यमानश्चासौ ज्वलनो दावानलः-दवामिः तस्य ज्वालास्ताभिः आलिंगिताः व्याप्तास्तेषां । अत्र अल्पस्वरत्वेन पूर्व अजितशब्दोच्चारणं घटते परं छन्दोभंगभयात् अनुप्रासकारणाच पूर्व शान्तिपदोच्चारणं ततो न दोषः ॥१२॥ ___ अथ भगवतोः साम्राज्यपरित्यागचारित्रांगीकारवर्णनां कुर्वन् प्रार्थनामाहहरि-करि-परिकिण्णं पक्कपाइकपुपणं, सयलपुहविरजं छडिउं आणसज्ज । तणमिव पडलग्गं जे जिणा मुत्तिमग्गं, चरणमणुपवना हुंतु ते मे पसन्ना ॥१३॥
व्याख्याः -'तौ जिनौ' अजितशान्तिनाथौ 'मे' मम प्रसन्नौ प्रसादपरौ भवताम् । तौ कौ यो जिनौ 'चरणं' चारित्रं 'अनुप्रपन्नौ'-अंगीकृतवन्तौ । किंविशिष्टं चरणं ? 'मुक्तिमार्ग' मुक्तौ मुक्तिपत्तने मार्ग इव मुक्तिमार्गः चारित्रमेव हि मुक्तिगमने मार्गः। कुतः ? "दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्युक्तत्वात् । किं कृत्वा चरणं अनुप्रपन्नौ ? सकलपृथिवीराज्यं छर्दित्वा-परित्यज्य । किंविशिष्टं राज्यं ? 'हरिकरिपरिकीर्ण' हरयो-अश्वा वाल्हीकादिदेशोद्भवाः, 'करिणो' भद्रजातीयादिहस्तिनः, तैः परिसमंतात् कीर्णं व्याप्तं । पुनः किंविशिष्टं राज्यम् ? 'पक्कपदातिपूर्ण', पकाः रिपुनिग्रहसमर्थाः ‘पदातयः' पत्तयः तैः पूर्ण युक्तं । पुनः किंविशिष्टं राज्यं ? 'आणसज्ज' । आज्ञायां आदेशे सज्ज प्रगुणं राज्यम् । किमिव त्यक्तं इत्याह-तृणमिव । किंविशिष्टं तृणं ? पटलमे, पटे लमं पटलमं । यथा वस्त्रलमं तृणं आच्छोट्यते तथा राज्यमपि त्यक्तम् ॥१३॥
अधुना देवांगनावन्दनाद्वारेण भगवतोः स्तुतिमाहछणससिवयणाहिं फुल्लनीलुप्पलाहिं, थणभरनमिरीहिं मुट्ठिगिज्झोदरीहि । ललिअभुयलयाहिं पीणसोणिस्थलीहिं, सयसुररमणीहिं वंदिआ जेसि पाया ॥
व्याख्याः-"हुन्तु ते मे प्रसन्ना" इति वाक्यं पूर्ववृत्तस्थं अत्रापि संबध्यते । ततो अत्रापि इयं उक्तिः । तौ अजितशान्ती मम प्रसन्नौ भवताम् । तौ कौ ? 'जेसिं' ययोः अजितशान्त्योः पादाश्चरणाः सुररमणीभिःक्षणशशिवदनाभिः क्षणः पूर्णिमापर्व तस्य शशी-चन्द्रः तद्वत् मुखं यासां ताः क्षणशशिवदनास्ताभिः क्षण । पुनः किंविशिष्टाभिः सुररमणीभिः ? फुलनेत्रोत्पलाभिः नेत्राण्येव उत्पलानि नयनकमलानि निर्नि(सुरमणीभिः पृ. १९-३१ अतोऽप्रे:-) देवाङ्गनाभिः वन्दिताः, सुराणां वैमानिकादिदेवानां रमण्यः ' सुररमण्यस्ताभिः सुररमणीभिः सदा। किंविशिष्टाभिः सुररमणीमिः ? (यावत् 'क्षण शशिवदनाभिः')
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59