Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तबम् " सव्वसुरा जइरूवं अंगुठ्ठपमाणं विउविज्जा।
जिण पायगुटुं पइ न सोहए तं जहिं गालो ॥१॥" पुनः किं० अजितम् ? 'धरणिधरप्पवराइरेअसारं' । 'धरणीधराः' पर्वताः तेषु प्रवरः प्रधानः मेरुस्तस्मात् अतिरेकं सारः बलं यस्य सः धरणीधरप्रवरातिरेकसारस्तम् । कुसमलतानाम छन्दः ॥१५॥
पुनः किं० अजित ? च पुनः, 'सत्त्वे' व्यवसाये सदा सर्वकालं अजितं न केनापि अभिभूतम् । च पुनः बले सामर्थे अजित, किं वि०बले शारीरे शरीरस्य इदं शारीरं, तस्मिन् शारीरे देहजमित्यर्थः । पुनः किं० अजितम् ? 'तवसंजमे अ अजिअं तपो द्वादशप्रकारं । संयमः सप्तदशभेदः । ततः समाहारद्वन्द्वः । तपश्च संयमश्च तपःसंयमौ तयो समाहरः तस्मिन् अजितं, न केनापि जितम् ॥१६॥ भुजंगपरिरिंगित नाम छन्दः ॥१६॥ अथ पद्यद्वयेन श्रीशान्तिनाथ स्तुवन्नाह
सोमगुणेहिं पावइ न तं नवसरयससी, तेअगुणेहिं पावइ न तं नवसरयरवी। रूवगुणेहिं पावइ न तं तिअसगणवई, सारगुणेहिं पावइ न तं धरणिधरवई ॥१७॥ खित्तयं ॥ तित्थवरपवत्तयं तमरयरहियं, धीरजणथुयचियं चुअकलिकलसं। संतिसुहपवत्तयं तिगरणपयओ, संतिमहं महामुणिं सरणमुवणमे॥
॥१८॥ ललिअयं ॥ व्याख्याः-अहं 'शान्ति' श्रीशान्तिनाथं शरणं उपनमे इत्युक्ते । किं शान्तिम् ? 'तित्थवरपवत्तयं तीर्थ चतुर्विधः संघः, वरं च प्रधानं तस्य प्रवर्तकं, विशेषणस्य विपर्यासः प्राकृतत्वात् । पुनः किंवि० शाति-'तमरयरहिअं' तमो बद्धयमानकर्म उपलक्षणत्वात् बद्धं च कर्म ताभ्यां रहितं वर्जितं ॥ पुनः किं० शान्तिम् ? 'धीरजणथुअच्चिअं', धिया राजते इति धीरः सत्ववांश्च । धीरश्चासौ जनश्च धीरजनः, तेन धीरजनेन स्तुतः वाग्भिः, अर्चितः पुष्पादिभिः,तं धी०। पुनः किं विशिष्ट शान्तिम् ? 'चुअकलिकलुसं', कलिः वैरं, कालः कलहो वा कलुषं च पापं ततः कलिश्च कलुषं च कलिकलुषं समाहारो द्वंद्वः । च्युतं अपगतं कलिकलुषं यस्य सः तं०। पुनः किं० शान्तिम् । 'संतिसुहपवत्तय' शान्तिरेव सुख शांतिसुखं तस्य प्रवर्तकं । अथवा शान्तिश्च सुखं च शान्तिसुखे,तयोः प्रवर्तकं कारकं । किं वि०अहं । 'तिगरणपयओ', त्रिकरणैर्मनोवाक्कायरूपैः प्रयतः पूतः पुनः पुनः। किं०शान्तिम् ? महामुणि महांश्चासौ मुनिश्च महामुनिः तं सर्वमुनिषु स्वामित्वात् ॥१८॥ललितकं नाम छन्दः॥
अथ सप्तदशपदव्याख्याः-'नवसरयससी सोमगुणेहिं पावई' । नवश्चासौ शारदश्च शशी चन्द्रः सौम्यगुणैः शांतिगुणैः तं शान्ति न प्राप्नोति न अनुकरोति । शान्तेः अधिकसौम्यगुणवत्त्वात् । तथा पुनः तेषां 'तेअगुणेहि नवसरयरवी न तं पावई' नवश्चासौशारदश्च रविः सूर्यः तेजोगुणैः तेजसः प्रभायाः गुणैः तं शान्ति न प्राप्नोति शान्तेः अधिकतेजस्वित्वात् पुनः 'तिअसगणवई रूवगुणेहिं तं न पावई' । त्रिदशा-देवास्तेषां गणः--समूहः तस्य पतिः इन्द्रः रूपगुणैः तं शान्ति न पामोति तस्य अत्यन्ताधिकरूपत्वात् । पुनः 'धरणिधरवई सारगुणेहिं न तं पावई' । धरणीधरेषु-पर्वतेषु वरः प्रधानो मेरुः सारगुणैर्बलगुणैः तं शान्ति न प्रामोति तस्मादपि शान्तेरनन्तगुणबलवत्वात् । खिज्जतकं नाम छन्दः ॥१७-१८॥
अथ पद्यत्रयेण श्रीअजितनाथं स्तुवन्नाह
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59