Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री पूर्वाचार्यविरचितम् नर्तकीभिः किं कृत्वा पादौ वंदितौ ? 'नच्चिऊण' नर्तयित्वा नाटकं कृत्वा कैः नर्तयित्वा अंगहारकैः अंगविक्षेपादिभिः। प्रशंसायां कन् । किंविशिष्टैः अंगहारकैः हावभावविभ्रमप्रकारकैः हावभावविप्रमाणां प्रकारो येषु ते हावभावभ्रमप्रकारकास्तैः हा० । प्रशंसायां सर्वत्र कन् । अत्र हावा-मुखविकाराः भावा अभिप्रायाः विभ्रमा-विलासाः। कुत्र नर्तयित्वा नर्तकीभिः पादौ वन्दितौ इत्याह गीतनृत्य इति विशेष्यं गम्यं सूत्रांतर्वर्तीनि तु सर्वाणि विशेषणानि ज्ञेयानि। किंविशिष्टे गीतनृत्ये ? 'वंससद्दतंतितालमेलिए'। वंशस्य शब्दो वंशशब्दः, तन्त्री वीणा, तालश्च पटहादेः शब्दः । ततो द्वन्द्वे कृते वंशशब्दतन्त्रीतालास्तैर्मेलिते मिलिते । पुनः किं० गीतनृत्ये ? 'तिउक्खराभिरामसद्दमीसए कए। त्रिपुष्करस्य अभिरामेण रमणीयेन शब्देन ध्वनिना मिश्रित संयुक्तके कृते विहिते । त्रिपुष्करं किमुच्यते ? दर्दुरटमुरजसंबन्धे भवति । कथं दर्दुरटस्य एकं मुखै भवति । मुरजस्य तु मुखद्वयं भवति । तत्र मुखत्रये मिलिते त्रिपुष्करं स्यात् । पुनः किं०गीतनृत्ये च ? 'सुइसमाणणे' श्रुतीनां श्रवणानां समानानां करणेन सर्वशब्दोपलब्धिषु समीकरणेन च कृते। कि०गीत ०? 'सुद्धसज्जगीअपायजालघंटिआहिं'। शुद्धसज्जगीतं च पादेषु समुदायतो जालाकृतयः किंकणिका जालघंटिकाश्च ताभिः उपलक्षिते सति सामर्थ्याद् गम्यं । पुनः किं०गीत० ? 'वलयमेहलाकलावनेउराभिरामसद्दमीसए कए' य । च पुनः । वलयानि कटकानि, मेखला-रसना, कलापा अलंकारविशेषाः, नू पुराणि तुलाकोटयः। ततो वलयाश्च मेखलाश्च कलापाश्च नू पुराश्च वलयमेखलाकलापनू पुरास्तेषां अभिरामो रमणीयो यः शब्दो ध्वनिस्तेन मिश्रिते संयुक्ते कृते ॥३१॥ नाराचकनाम छन्दः ॥ इदं गाथाद्वयं मया कथंचित् कष्टेन व्याख्यातमस्ति । अतः आर्षवाक्यत्वात् विशेष्यविशेषणविभक्तिवचनादीनां ताडगवबोधो न जातः परं विद्वत्तमैर्यथा सम्यक् व्याख्यानं भवति तथा कार्य । नाराचकनाम छन्दः ॥३१॥
अथ संलममेव अजितशान्तियुगलं पद्यत्रयेण स्तुवन्नाहछत्तचामरपडागजूअजवमंडिआ, प्रयवरमगरतुरयसिरिवच्छसुलंछणा।
दीवसमुदमंदरदिसागयसोहिया,
सत्थिअवसहसीहसिरिवच्छसुलंछणा ॥३२॥ ललिअयं ॥ सहावलट्ठा समप्पइहा, अदोसदुट्टा गुणेहि जिहा। पसायसिट्ठा तवेण पुढा, सिरीहिं इट्टा रिसीहिं जुट्ठा ॥३३॥ वाणवासिया॥ ते तवेण धुयसव्वपावया, सव्वलोअहिअमूलपावया। संथुआ अजिअसंतिपायया, हुतु मे सिवसुहाण दायया ॥३४॥ अपरान्तिका॥
व्याख्याः--ते अजिअसतिपायया संथुआ मे सिवसुहाण दायया हुतु इत्युक्तिः । ते पूर्वोक्ताः अजितशान्त्योः प्रशस्ताः पादाः पादकाः "प्रशंसायां कन्" । अथवा-अजितशांति पादकामका 'मे' मम स्तोत्रकर्तुः संस्तुताः सन्तः शिवसुखदायका भवन्तु । शिवस्य-मोक्षस्य सम्बन्धिसुखं शिवसुखं तस्य दायका दातारः भवन्तु। किं० अजितशान्तिपादकाः? 'छत्तचामरपडागजूअजवमंडिआ'। छत्रं आतपत्रं । चामरं प्रसिद्धम् । पताका वैजयन्ती । यूपः प्रसिद्धः । यवोऽपि प्रसिद्धः । ततो द्वंद्वसमासे कृते छत्रचामरपताकायूपयवास्तैर्लक्षणैर्मण्डिता विभूषिताः । पुनः किं अ०? अयवरमगरतुरयसिरिवच्छसुलंछणा' । ध्वजः प्रसिद्धः। स चासौ वरश्च प्राकृतत्वान्न विशेषणस्य पूर्वनिपातः । अथवा वरश्वासौ मकरश्च प्रसिद्धः, तुरगो अश्वः, श्रीवृक्षं वक्षस्थले श्रीवत्सः, ततो द्वंद्वे कृते ध्वजवरमकरश्रीवत्सानि सुलान्छनानि शोभनलक्षणानि येषां ते ध्व० ।
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59