Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी पूर्वाचार्यविरचितम् विणओणय सिररहअंजलि-रिसिगणसंथुयं थिमिश्र, विबुहाहिवधणवइनरवइ-थुअमहिअचियं बहुसो । अइरुग्गयसरयविवायर-समहिअसप्प तवसा, गयणंगणवियरणसमुइअचारणवंदिरं सिरसा ॥१९॥ किसलयमाला । असुरगरुलपरिवंदिरं, किन्नरोरगनमंसियं । देवकोडिसयसंथुअं, समणसंघपरिवंदिरं ॥२०॥ सुमुहं॥ अभयं अणहं अरयं अरुअ अजिअं अजियं पयओ पणमे ॥२१॥ विज्जुविलसियं ॥ व्याख्याः -अहं इति शेषः । प्रयतः पूतः सन् 'अजित'-अजितनाथं प्रणमे इत्युक्तिः । तथा पूर्व उवणमे इत्युक्त, इहापि प्रणमे इति उभयत्र प्राकृतत्वात् आत्मनेपदं । किं० 'अजित' आदितो व्याख्यानयति विशेषणपदानि । 'विणओणयसिरिरइअंजलिरिसिगणसंथुयं । विनयेन अवनता विनयावनता। शिरसि-मस्तके रचितो योजितो अंजलियस्तै रचिताञ्जलयः । ततः कर्मधारयः । विनयावनताश्च शिरोरचिताञ्जलयश्च विनयावनतरचिताञ्जलयः रचिताञ्जलयश्च विनयावनतरचिताञ्जलयः । एवंविधा ये ऋषयः तेषां गणः-समूहस्तैः संस्तुतम् । पुनः किं० अजितम् ! । 'थिमि निस्तरंगसमुद्रसदृशम् अशुभविकल्पसंकल्पानामभावात् । पुनः किं० अजितम् ? 'विबुहाहिवधणवइनरवइथुअमहिअच्चियं बहुसो' । विबुधाधिपा-इन्द्राः धनपतयो धनदाः उपलक्षणत्वात् शेषा लोकपालाश्च नरपतयश्चक्रवर्तिप्रमुखा राजानः, ततो द्वन्द्वः विबुधाधिपाश्च (धनपतयश्च) नरपतयश्च विबुधाधिपधनपतयनरपतयः तैः स्तुतं(वाग्भिः), महितं प्रणामादिभिः, अर्चितं पुष्पादिभिः बहुशो अनेकशः। पुनः किं० अजितम् ? 'अइरुगयसरयदिवायरसमहियसप्पभं' अचिरोद्गतः नवीनोद्गतो यः शरदः शरत्कालस्य दिवाकरः सूर्यः तस्मात् अधिका सती प्रधाना प्रभा यस्य स तं० । केन 'तपसा' द्वादश प्रकारेण। पुनः किं० अजितम् ? 'गगणंगणवियरणसमुइअचारणवंदिअं'। गगनांगणे-वितरणेन विचरणेन समुदिता समेता ये चारणाश्चारणश्रमणास्तवदितम् प्रणतं । केन 'सिरसा' मस्तकेन ॥१९॥ किसलयमालानाम छन्दः ॥ पुनः किं० अजितम् ? 'असुरगरुलपरिवंदिअ', असुरा असुरकुमारा गरुडाः सुवर्णकुमाराः, तैः परि सामस्त्येन वन्दितम् । पुनः किं अजितम् ? 'किन्नरोरगनमंसिअ' । किन्नरैः उरगैः नागकुमारैर्महोरगैर्वा नमस्कृतं-नतम् । पुनः किं० अजित ? 'देवकोडिसयसंथु' । देवानां कोटिशतैः संस्तुतम् । पुनः किं० अजितम् ? 'समणसंघपरिवंदिअ' । श्रमणानां संघेन परिसामस्त्येन वन्दितम् । संमुखं नाम छन्दः॥ ॥२०॥ पुनः किं० अजितम् ? 'अभयं', न विद्यते सप्तप्रकारं भयं यस्य सः तम् । पुनः किं०अजितम् ? 'अनघ', न विद्यते अघं पापं यस्य स अनघस्तम्। पुनः किं० 'अरयं', न विद्यते रजो बध्यमानं कर्म उपलक्षणत्वात् बद्धं च यस्य सः तं अजितम् । पुनः किं० अजितम् ? 'अरु' न विद्यते रुक् व्याधिः यस्य सः अरुक् तं अ०। पुनः किं० अजित ? अजित बाह्याभ्यन्तरवैरिभिः पराभूतम् ॥ विद्युद्विलसित नाम छन्दः ॥१९॥२०॥२१॥ अथ पद्यचतुष्टयेन श्रीशान्तिनाथं स्तुवन्नाह-- आगया वरविमाणदिव्वकण-गरहतुरयपहकरसएहिं हुलिअं। ससंभमोअरणक्खुभिअ-लुलिअचलकुंडलं गयतिरीडसोहंतमउलिमाला ॥२२॥ वेड्डओ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59