Book Title: Saptasmaran Stava Author(s): Samaysundar Gani Publisher: Jinduttsuri Gyanbhandar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ।। श्रीपूर्वाचार्यविरचितम् सप्तस्मरणस्तवम् जङ्गम-युगप्रधान-भट्टारक-श्रीमजिनचन्द्रमरिप्रशिष्य-उपाध्याय समयसुन्दरगणि-विरचितव्याख्यया समलंकृतम् करोति श्रीजिनं नत्वा, गणिः समयसुन्दरः । सप्तस्मरणसूत्रस्य, वृत्तिं सुगमबोधिकाम् ॥१॥ प्रथमसरणं । अजियं जियसव्वभयं, संतिं च पसंतसव्वगयपावं। जयगुरुसंतिगुणकरे, दोवि जिणवरे पणिवयामि ॥१॥ गाहा ॥ व्याख्याः-अहमिति शेषः । 'दोवि' द्वौ अपि जिनवरौ तीर्थंकरौ । 'पणिवयामि' प्रणिपतामि-प्रणमामि । द्वौ को इत्याह-'अजिय' अजितनामानं द्वितीय तीर्थकरम्। किंविशिष्ट अजितं ? 'जितसर्वभयम्' जितानि इहलोकादिसर्वसप्तभयानि येन स जितसर्वभयस्तम् । च पुनः 'संति' शान्तिनाथं षोडशतीर्थकरम् । किंविशिष्ट शान्तिम् ? 'पसंतसव्वगयपावं' प्रशान्तस्य प्रशमं प्राप्तस्य, सर्व समस्तं गतं क्षीणं पापं अशुभं कर्म यस्य सः प्रशान्तसर्वगतपापस्तं प्र० । किंविशिष्टौ द्वौ अपि जिनवरौ ? 'जयगुरुसंतिगुणकरे' जगतो गुरू जगद्गुरू । पुनः शान्तिः कषायोदयस्य नाशरूपा गुणाश्च ज्ञानादयस्तान् कुरुतः शान्तिगुणकरौ । ततः कर्मधारयसमासः। जगद्गुरू(रौ) च तौ शान्तिगुणकरौ च जगद्गुरुशान्तिगुणकरौ तौ ज० । गाहेति' इयं गाथा तच्च लक्षणं छन्दःशास्त्रात् ज्ञेयः ॥१॥ ववगयमंगुलभावे, ते-हं विउलतवनिम्मलसहावे । निरुवममहप्पभावे, थोसामि सुदिट्ठसम्भावे ॥२॥ गाहा ॥ व्याख्याः- 'अहं' तौ अजितशान्तिनाथौ, 'थोसामि'-स्तोष्यामि। किंविशिष्टौ ? 'ते' इति तौ। 'दोवयणे बहुवयणं' इति प्राकृतत्वात् द्विवचने बहुवचनं ज्ञेयम् । 'ववगयमंगुलभावे', व्यपगतो नष्टो मङ्गुलभावोऽशोभनो भावो ययोस्तौ व्यपगतमङ्गुलभावौ, तौ व्य० । पुनः किंविशिष्टौ तौ ? 'विउलतवनिम्मलसहावे' विउलंविस्तीर्ण यत्तपो द्वादशप्रकारं विस्तीर्णतपः तेन निर्मलः कर्ममलरहितः स्वभावो[वौ] ययोस्तौ विपुलतपोनिर्मलस्वभावौ तौ । पुनः किं विशिष्टौ तौ 'निरुवममहप्पभावे' । निरुपम-ओ] उपमारहितः,(महान्) गुरुगरिष्ठः प्रभावः For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59