Book Title: Saptasmaran Stava Author(s): Samaysundar Gani Publisher: Jinduttsuri Gyanbhandar View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्षाचार्यविरचितम् शक्तिर्ययोस्तौ निरुपममहत्प्रभावौ। पुनः किंविशिष्टौ तौ ? 'सुदिवसभावे', सुदृष्टा यथावस्थिता उपलब्धाः सन्तो भावा यावन्तो विद्यमाना याभ्यां तौ सुदृष्टसद्भावौ तौ० । इयमपि गाथा ॥२॥ सव्वदुक्खप्पसंतीणं, सव्वपावप्पसंतीणं । सया अजियसंतीणं, नमो अजियसंतीणं ॥३॥ सिलोगो। व्याख्याः-'सदा' नित्यं अजितशान्तिभ्यां नमः। अत्र नमोयोगे चतुर्थी। चतुर्थीस्थाने च षष्ठी । प्राकृते च "चउत्थविभत्तीइ भण्णए छट्ठी" इति वचनात् । किं विशिष्टाभ्यां अजितशान्तिभ्याम् ? 'सव्वदुक्खप्पसंतीणं', सर्वेषां दुःखानां प्रशान्तिः अस्ति ययोस्तौ सर्वदुःखप्रशान्ती, ताभ्यां सर्वदुःखप्रशान्तिभ्यां । पुनः किंविशिष्टाभ्यां अजितशान्तिभ्याम् ? “सव्वपावप्पसंतीणं' । सर्वपापानां-अशुभकर्मणां प्रशान्तिः अस्ति ययोस्तौ सर्वपापप्रशान्ती ताभ्यां स० । पुनः किंविशिष्टाभ्यां अजितशान्तिभ्याम् ? 'अजिअसंतीणं', अजिता न जिता रागादिभिः शान्ति उपशमरूपा ययोस्तौ अजितशान्ती, ताभ्याम् अजित० ॥ अयं श्लोकोऽष्टाक्षरः ॥३॥ अजिय जिण ! सुहप्पवत्तणं, तव पुरिसुत्तम नामकित्तणं । तह य धिइमइप्पवत्तणं, तवइ जिणुत्तम संति कित्तणं ॥४॥ मागहिया॥ व्याख्याः-हे ? अजित जिन ? तव नामकित्तणं, नाम्नः कीर्तन संशब्दनं, सुखानां प्रवर्तनं प्रयोजकं वर्तते इति शेषः । हे' पुरुषोत्तम ! पुरुषेषु उत्तमः प्रधानः पुरुषोत्तमः, तस्य सम्बोधनं हे पुरुषोत्तम ! । च पुनः तथा हे शान्ते ! तव कित्तणं नाम्न इति सामर्थ्याद्गम्यम् । नामकीर्तनं 'धिइमइपवत्तणं', धृतेः स्वास्थ्यस्य मतेः प्रज्ञायाः प्रवर्तनं वर्तते । हे जिनोत्तम सन्ति ! अत्र प्राकृतत्वात् हे शान्ते ! इति ज्ञेयम् । मागधिका छन्दः ॥४॥ किरियाविहिसंचियकम्मकिलेसविमुक्खयरं, अजिअं निचियं च गुणेहिं महामुणि-सिद्धिगयं । अजियस्स य संति महामुणिणो यि य संतियरं, सययं मम निव्वुइकारणयं च नमसणयं ॥५॥ आलिंगणयं ॥ व्याख्याः-'अहं अजितं'-अजितनाथं वन्दे इति शेषः । किं विशिष्ट अजितं ? 'किरियाविहिसंचिअकम्मकिलेसविमुक्खयर' क्रियाः पञ्चविंशतिः कायिक्याद्याः, तासां विधिनाः भेदेन, संचितानि संगृहीतानि यानि अष्टौ ज्ञानावरणीयादि कर्माणि । पुनः क्लेशाः कषायाः, तेभ्यो विमोक्षः अत्यन्तं पृथग्भावः तं करोतीति क्रियाविधिसंचितकर्मक्लेशविमोक्षकरस्तं० । पुनः किं० अजितं ? गुणैः ज्ञानादिभिः निचितं व्याप्तं । पुनः किं० अजितं ? 'महामुणिसिद्धिगयं', महामुनीनां सिद्धिर्मुक्तिः तां गतं प्राप्तम् । च पुनः अजितस्य अपि च शान्ति महामुने नमस्यनकं प्रणमनकं एवंविधं वर्तते । किं विशिष्टं नमस्यनकं ? 'संतिअरं' शान्तिः उपशमस्तां कर्तु शान्तिकरं। पुनः किं० नमस्यनकं । 'सययं मम निव्वुइकारणयं' सततं-निरन्तरं मम स्तोतुनिवृत्तेर्मोक्षस्य कारणकं कारकं नमस्यनकं “स्थानद्वये" 'प्रशंसायां कन्प्रत्ययः' । आलिंगणकं नाम छन्दः ॥५॥ पुरिसा जइ दुक्खवारणं, जइ अ विमग्गह सुक्खकारणं । अजियं संतिं च भावओ, अभयकरे सरणं पवजहा ॥६॥ मागहिया ॥ व्याख्याः--भो पुरुषाः! यदि दुःखानां वारणं प्रतिषेधनं प्रतिक्षेपकं । च पुनः यदि सौख्यानां कारणं हेतुं विमार्गयथ यूयमिति शेषः तदा अजितं च पुनः शान्ति भावतो भक्त्या एतौ द्वौ अपि तीर्थकरौ शरणं त्राणं प्रपद्यध्वम् । किंविशिष्टौ एतौ द्वौ ? 'अभयकरे'। अभयं कर्तुं शीलं ययोस्तौ अभयकरौ तौ। द्विवचनेऽपि For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59