Book Title: Sambodhi 1989 Vol 16
Author(s): Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad
________________
2. यत् तावत् कल्पनापोढमभ्रान्तमिति लक्षणम् ।
प्रत्यक्षस्य जगी भिक्षुस्तदत्यन्तमसाम्प्रतम् ॥ न्यायमञ्जरो (द्वतीयमाह्निकम् ) गूर्जरभाषानुवाद. सहिता, संपादक-अनुवादक नगीन जो. शाह, प्रकाशक लालभाई दलपतभाई संस्कृति विद्यामन्दिर, अहमदाबाद-९, १९७८, पृ. ६६ For the comprehensive presentation of the Buddhist conception of perception one may refer to a chapter on Sense-perception in Buddhist Logic, Volume I, as also a chapter on Perception in Buddhist Logic. Volume II, by Th. Stcherbatsky, Mouton & Co..'S-Gravenhage, 1958.
3. शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना ।
अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते । न्यायमञ्जरी, पृ. ६६ असदर्थविषयत्वमेवेदमुक्तं भवति, शब्दार्थस्य वास्तवस्याभावात् , स्वलक्षणस्य सजातीयेतर. व्यावृत्तात्मनः सम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तुमशक्यत्वात् , तद्व्यतिरिक्तस्य
वस्तुनोऽनुपलम्भात् । न्यायमञ्जरी, पृ. ६६ 5. न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पनाबुद्धिः, तमन्तरेणापि भावात् , तस्मिन्
सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विनाऽनुत्सादात् । यदि चेन्द्रियार्थसन्निकर्पस्तजनको भवेत् प्रथममेव तथाविधां धियं जनयेत् , न च जनयति । तदयं शब्दस्मृतेर्वमपि न
जनक इति मन्यामहे । न्यायमञ्जरी, पृ. ६६ * अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् ।
अक्षधीयद्यपेक्षेत सोऽथों व्यवहितो भवेत् ।। इति [प्रमाणविनिश्चय], न्यायमञ्जरी, पृ. ६६ 6. सङ्केतस्मरणोपायं दृष्टसङ्कलनात्मकम् ।
पूर्वापरपरामर्शशून्यं तच्चाक्षुषं कथम् ॥ इति [प्रमाणवार्तिक], न्यायमञ्जरी, पृ. ६७ 7. सर्व एवामो विकल्पाः परमार्थतोऽर्थ न स्पृशन्त्येव । स हि निर्विकल्पकेनैव सर्वात्मना
परिच्छिन्नः । तदुक्तम्एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते ॥ इति [प्रमाणवार्तिक] यत् तु केषाञ्चिद विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादिरूपं तदर्थाविनाभाविनिर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गजनितं, न तु तेषामर्थस्पर्शः कश्चिदस्ति, अर्थात्मनो निर्विकल्पे
नैव मुद्रितत्वात् । न्यायमञ्जरी, पृ. ६८ 8. पञ्च चैताः कल्पना भवन्ति-जातिकल्पना, गुणकल्पना, क्रियाकल्पना, नामकल्पना, द्रव्य कल्पना
चेति । ताश्च कचिदभेदे भेदकल्पनात् , कचिच्च भेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते । जातिजातिमतोमेंदो न कश्चित् परमार्थतः । भेदारोपणरूपा च जायते जातिकल्पना ॥ . 'इदमस्य गोर्गोत्वम्' इति न हि कश्चिद् भेदं पश्यति । तेनाभेदे भेदकल्पनैव ।
Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309