SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 2. यत् तावत् कल्पनापोढमभ्रान्तमिति लक्षणम् । प्रत्यक्षस्य जगी भिक्षुस्तदत्यन्तमसाम्प्रतम् ॥ न्यायमञ्जरो (द्वतीयमाह्निकम् ) गूर्जरभाषानुवाद. सहिता, संपादक-अनुवादक नगीन जो. शाह, प्रकाशक लालभाई दलपतभाई संस्कृति विद्यामन्दिर, अहमदाबाद-९, १९७८, पृ. ६६ For the comprehensive presentation of the Buddhist conception of perception one may refer to a chapter on Sense-perception in Buddhist Logic, Volume I, as also a chapter on Perception in Buddhist Logic. Volume II, by Th. Stcherbatsky, Mouton & Co..'S-Gravenhage, 1958. 3. शब्दसंसर्गयोग्यार्थप्रतीतिः किल कल्पना । अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते । न्यायमञ्जरी, पृ. ६६ असदर्थविषयत्वमेवेदमुक्तं भवति, शब्दार्थस्य वास्तवस्याभावात् , स्वलक्षणस्य सजातीयेतर. व्यावृत्तात्मनः सम्बन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तुमशक्यत्वात् , तद्व्यतिरिक्तस्य वस्तुनोऽनुपलम्भात् । न्यायमञ्जरी, पृ. ६६ 5. न चेन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायिनी कल्पनाबुद्धिः, तमन्तरेणापि भावात् , तस्मिन् सत्यपि च पूर्वानुभूतवाचकशब्दयोजनं विनाऽनुत्सादात् । यदि चेन्द्रियार्थसन्निकर्पस्तजनको भवेत् प्रथममेव तथाविधां धियं जनयेत् , न च जनयति । तदयं शब्दस्मृतेर्वमपि न जनक इति मन्यामहे । न्यायमञ्जरी, पृ. ६६ * अर्थोपयोगेऽपि पुनः स्मात शब्दानुयोजनम् । अक्षधीयद्यपेक्षेत सोऽथों व्यवहितो भवेत् ।। इति [प्रमाणविनिश्चय], न्यायमञ्जरी, पृ. ६६ 6. सङ्केतस्मरणोपायं दृष्टसङ्कलनात्मकम् । पूर्वापरपरामर्शशून्यं तच्चाक्षुषं कथम् ॥ इति [प्रमाणवार्तिक], न्यायमञ्जरी, पृ. ६७ 7. सर्व एवामो विकल्पाः परमार्थतोऽर्थ न स्पृशन्त्येव । स हि निर्विकल्पकेनैव सर्वात्मना परिच्छिन्नः । तदुक्तम्एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते ॥ इति [प्रमाणवार्तिक] यत् तु केषाञ्चिद विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादिरूपं तदर्थाविनाभाविनिर्विकल्पकदर्शनपृष्ठभावित्वावाप्ततच्छायासंसर्गजनितं, न तु तेषामर्थस्पर्शः कश्चिदस्ति, अर्थात्मनो निर्विकल्पे नैव मुद्रितत्वात् । न्यायमञ्जरी, पृ. ६८ 8. पञ्च चैताः कल्पना भवन्ति-जातिकल्पना, गुणकल्पना, क्रियाकल्पना, नामकल्पना, द्रव्य कल्पना चेति । ताश्च कचिदभेदे भेदकल्पनात् , कचिच्च भेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते । जातिजातिमतोमेंदो न कश्चित् परमार्थतः । भेदारोपणरूपा च जायते जातिकल्पना ॥ . 'इदमस्य गोर्गोत्वम्' इति न हि कश्चिद् भेदं पश्यति । तेनाभेदे भेदकल्पनैव ।
SR No.520766
Book TitleSambodhi 1989 Vol 16
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages309
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy