Book Title: Samaysara Part 02
Author(s): Bhagwandas Mansukhbhai Mehta
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
સમયસાર : આત્મખ્યાતિ
अन्याक्रियमाणान्याकारकैकद्रव्यात्मिका अकार्याकारणशक्तिः । परात्मनिमित्तकज्ञेयज्ञानाकारग्राहणग्रहणस्वभावरूपा परिणम्यपरणामकत्वशक्तिः ।
अन्यूनातिरिक्तस्वरूपनियतत्वरूपात्यागोपादानशून्यत्वशक्तिः । षट्स्थानपतितवृद्धिहानिपरिणतस्वरूपप्रतिष्ठत्वकारण -
विशिष्टगुणात्मिका अगुरुलघुत्वशक्तिः ।
क्रमाक्रमवृत्तिवृत्तित्वलक्षणोत्पादव्ययध्रुवत्वशक्तिः। द्रव्यस्वभावभूतध्रौव्यव्ययोत्पादलिंगितसदृशविसदृशरूपैका Sस्तित्वमात्रमयी परिणामशक्तिः ।
कर्मबंधव्यपगमव्यंजितसहजस्पर्शादिशून्यात्मप्रदेशात्मिका अमूर्तत्वशक्तिः ।
सकलकर्मकृतज्ञातृत्वमात्रातिरिक्तपरिणामकरणोपरमात्मिका अकर्तृत्वशक्तिः ।
सकलकर्मकृतज्ञातृत्वमात्रातिरिक्तपरिणामानुभवोपरमात्मिका अभोक्तृत्वशक्तिः । सकलकर्मोपरमप्रवृत्तात्मप्रदेशनैष्यंद्यरूपा निष्क्रियत्वशक्तिः ।
आसंसारसंहरणविस्तरणलक्षितकिंचिदूनचरमशरीरपरिमाणावस्थित
लोकाकाशसम्मितात्मावयवत्वलक्षणा नियतप्रदेशत्वशक्तिः ।
सर्वशरीरैकस्वरूपात्मिका स्वधर्मव्यापकत्वशक्तिः ।
स्वपरसमानासमानसमानासमानत्रिविधभावधारणात्मिका साधारणसाधारणसाधारणासाधारणधर्मत्वशक्तिः ।
विलक्षणानंतस्वभावभाविनैकभावलक्षणानंतधर्मत्वशक्तिः ।
तदतद्रूपमयत्वलक्षणा विरुद्धधर्मत्वशक्तिः ।
तद्रूपभवनरूपा तत्त्वशक्तिः । अतद्रूपाऽभवनरूपा अतत्त्वशक्तिः । अनेकपर्यायव्यापकैकद्रव्यमयत्वरूपा एकत्वशक्तिः ।
एकद्रव्यव्याप्यानेकपर्यायमयत्वरूपा अनेकत्वशक्तिः ।
भूतावस्थत्वरूपा भावशक्तिः । शून्यावस्थत्वरूपाऽभावशक्तिः ।
भवत्पर्यायव्ययरूपा भावाभावशक्तिः । अभवत्पर्यायोदयरूपाऽभावभावशक्तिः । भवत्पर्यायभवनरूपा भावभावशक्तिः । अभवत्पर्यायाभवनरूपाऽभावाभावशक्तिः ।
कारकानुगतक्रियाभिनिष्क्रांतभवनमात्रमयी भावशक्तिः ।
कारकानुगतभवत्तारूपभावगतक्रियामयी क्रियाशक्तिः । प्राप्यमाणसिद्धरूपभावमयी कर्मशक्तिः ।
भवत्तारूपसिद्धरूपभावभावकत्वमयी कर्तृशक्तिः ।
भवद्भावभवनसाधकतमत्वमयी करणशक्तिः ।
स्वयं दीयमानभावोपेयत्वमयी संप्रदानशक्तिः ।
उत्पादव्ययालिंगितभावापायनिरपायध्रुवत्वमयी अपादानशक्तिः ।
८४८

Page Navigation
1 ... 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952