Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak Author(s): Vakil Keshavlal Premchand Modi Publisher: Vakil Keshavlal Premchand Modi View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सुखावहोऽमुको दुःखावहोऽमुकः सालोकोऽमुको निरालोकस्ततः स प्रस्थाप्यमान आचार्य विज्ञपयति । यथा मम श्लेष्मा प्रस्पन्दतेऽथवा प्रवाते स्वपतोजीर्णमुपजायते यदि वा धर्ममध्यासितुं न शक्नोमि । अथवा अमुक अमुकं च साधुमहं सदैव प्रतिपृच्छामि तत एतयोर्मध्ये मम शय्यासंस्तारकभूमिमनुजानीत यदि वा प्रस्थापित स्तत्र गत्वा तत् गृहमालोक्यात्मनः संसाधकं प्रदेशमाचार्यस्य श्लेष्मप्रस्पन्दनादिकारण प्रकाशनपुरस्सरं सन्देशयति यथामुकाममुका मे संस्तारकभूमिमनुजानीतेति तथा चाहदीवेउं तं कजं गुरुं व अन्नं व सोउ अप्पाहे । ते विय तं भूयत्थं नाउं असढस्स वियरंति ॥५॥ तत् श्लेष्मप्रस्पन्दनादिकार्य दीपयित्वा प्रकाश्य गुरुमाचार्यमन्यं वा स्पर्धकपतिमुपाध्यायादिकं अप्पाहेति सन्देशयति । तेऽपि च गुरवोऽन्ये वा यत्सन्दिष्टं साक्षात्कथितं वा तत् भूतार्थ यथावस्थितं ज्ञात्वा तस्या शठस्य तो शय्यासंस्तारकभूमि वितरन्ति । अह पुण कन्दप्पातीहिमग्गते तो उ तस्स न दलंति । एवं तु पिंडसुत्ते पत्तेय इहं तु वुच्छामि ॥६॥ ___अथ कन्दादिभिर्मार्गयति । कन्दर्पनिमित्तमन्यद्वा किञ्चित् शठत्वमवलम्ब्य विज्ञपयति तदा तस्य न ददति नानुजानन्ति । अथवा जमिणं सेजासंथारयं लभिजा इत्यादि सूत्रस्यायमर्थ:-शय्या एव संस्तारका शय्या संस्तारकः । स च द्विधाफलक संस्तारकः कचि(थि)संस्तारको वा। तस्य योग्रेतनः संस्तारकः खरकस्तत्र स्वपतः पार्थाणि दुःखायन्ते । ततस्तेन पूर्व मृदुकुले गत्वा मृदुः संस्तारकोऽनुज्ञापितः तत्र आचार्यसमीपमागत्य विज्ञपयति यं यं शय्या संस्तारकं लभेत स ममैव स्यात् । तत्र यदि स्थविरस्तिस्याशठत्वमालोक्यानुजानन्ति तदा स तव (तस्य) स्यात् अथ शठ इति कृत्वा तस्य नानुजानन्ति तर्हि For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 124