Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak Author(s): Vakil Keshavlal Premchand Modi Publisher: Vakil Keshavlal Premchand Modi View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम भी व्यवहारसूत्रस्य पीठिका नंतरः। विभागः। प्र० गाहाघरे गिहेया एगठा होंति उग्गहे तिविहो। उउबद्धे वासासु य वुडावासे य नाणत्तं ॥२॥ गाहा इति घरमिति गिहमिति वा एते त्रयोऽप्येकार्थास्तच्च गृहं त्रिविधे अवग्रहे भवति । तद्यथा-ऋतुबद्धसाधर्मिकावग्रहे वर्षावाससाधर्मिकावग्रहे तत्रऋतुरिति ऋतुबद्धवावग्रहो गृहीतः। पञ्जोसविते इत्यनेन वर्षावग्रहः। एतयोईयोरप्यवग्रहयोरंतः प्रविष्ट इति कृत्वा सामर्थ्यतस्तृतीयोऽपि वृद्धापासावग्रहो गृहीतस्तथा चाह-वृद्धावासे च तत्र त्रिवप्यवग्रहेषु यन्नानात्वं तत्प्रत्येकसूत्रेषु वक्ष्यामीति वाक्यशेषः । चाउस्सालादि गिहं तत्थ पदेसों उ अंतो बाहिं वा। उवासंतरमो पुण अमुगाणं दोण्ह मज्झमि ॥३॥ ___ चतुःशालादिगृहमादि शद्वादेकशालद्विशालत्रिशाल परिग्रहः । तस्य प्रदेशा अन्तर बहिरासन्नदूरादि लक्षणा अवकाशान्तरं नाम अमुकयोर्द्वयोर्मध्यमिति । तदेवं कृता भाष्यकारण विषमपदव्याख्या । सम्प्रति नियुक्तिविस्तरः।। __ खेत्तस्सउ संकमणे कारण अन्नस्थ पट्टविनंतो। पुव्वुद्दिठे तं मि उउवासे सुत्तनिदेसो ॥ ४॥ आचार्य ऋतुबद्धकालनिमित्तं वर्षाकालनिमित्तं वा अन्यत् क्षेत्रं संक्रमितुमना अजायत । तत क्षेत्रस्य संक्रमणे कर्तव्येऽन्यस्मिन् वा आत्मनः कारणे समुपये कंचित्साधुमन्यत्र प्रस्थापयेत् । स च प्रस्थाप्यमानः पूर्वोद्दिष्टे तस्मिवकाशे प्राचार्यान् विज्ञपयति । अस्मिन् प्रस्तावेऽधिकृतसूत्रस्य निर्देशो भणनं । इयमत्र भावना योऽसौ प्रस्थाप्यते तेन तत् गृहं दृष्टं यदि वा योऽन्यः पूर्व क्षेत्रप्रत्युपेषणाय गतस्तेम तस्य सम्यक्कथितं यथाऽमुकः प्रदेशो निवातोऽमुकः प्रवातोऽमुकः साधारणोऽमुका ॥ १ ॥ Fer Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 124