________________
रायचन्द्रजैनशास्त्रमालायाम् [पञ्चमोऽधिकारः, पञ्चेन्द्रियविषयाः स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् ।
रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवं ॥५५॥
टीका-तैलादिना स्नेहेनाभ्यक्तवपुषो यथा रजःकणाः श्लिष्यन्ति नातिसूक्ष्मस्थूलाः, तथा रागद्वेषपरिणामस्नेहार्द्रस्य ज्ञानावरणादिवर्गणायोग्याः कर्मपुद्गलाः प्रदेशेषु आत्मनो लगन्तीत्यर्थः ॥ ५५ ॥
___ अर्थ-जिस प्रकार जिसके शरीरपर तेलकी मालिशकी गई है, उसके शरीरपर धूलिके कण आकर चिपट जाते हैं, वैसे ही राग और द्वेषसे भीगी हुई आत्माके कर्मबन्ध होता है।
भावार्थ-आस्माके योग-परिणामसे कर्म आते हैं, यह पहले बतला आये हैं । और आये, हुए कर्म जीके राग और द्वेषरूप भावोंका निमित्त पाकर आत्मासे उसी तरह चिपट जाते हैं, जैसे हवासे उड़कर आनेवाले धूल-कण चिकनाईका निमित्त पाकर शरीरसे चिपट जाते हैं।
सम्प्रति रागद्वेषप्रधानान् कर्मबन्धहेतून् समस्तानेव उपसंहरन्नाहअब राग-द्वेष,प्रमुख कर्मबन्धके सभी कारणोंको बतलाते हुए उपसंहार करते हैं:___ एवं रागद्वेषौ मोहो मिथ्यात्वमविरतिश्चैव ।
एभिः प्रमादयोगानुगैः समादीयते कर्म ॥५६॥ ___टीका-उक्तलक्षणौ रागद्वेषौ । मोहः-मोहनीयम् । मिथ्यात्वं तत्त्वाथाश्रद्धानलक्षणम् । अविरतिः-अनिवृत्तिः कर्माश्रवेभ्यः । एभिः रागादिभिर्विकथादिप्रमादपञ्चकसहितैर्मनोवाकाययोगानुगतैः कर्म आदीयते-गृह्यते, ‘स्वप्रदेशेषु आत्मना विधीयते' इत्यर्थः । ततश्च घटीयन्त्रन्यायेन रागादीनां कर्मबन्धहेतुत्वं कर्मणोऽपि रागादिपरिणामः ॥ ५६ ॥ __ अर्थ-इस प्रकार प्रमाद और योगसे सहित राग, द्वेष, मोह, मिथ्यात्व और अविरतिसे यह जीव कर्मोको ग्रहण करता है ।
भावार्थ-राग वगैरहका लक्षण पहले कह आये हैं। विकथादि पाँच प्रमादों और मनोयोग तथा काययोगसे सहित रागादिकके द्वारा जीव कर्मबन्ध करता है। रागादिक और कर्मबन्धका परस्परमें निमित्तनैमित्तिक सम्बन्ध है । रागादिकसे कर्मबन्ध होता है और कर्मबन्धसे रागादिक परिणाम होते हैं।
अतः
कर्ममयः संसारः संसारनिमित्तकं पुनर्दुःखम् ।
तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम् ॥ ५७ ॥
टीका--कर्मविकारो नारकत्वं तिर्यक्त्वं मनुष्यत्वं देवत्वम् । नारकादिरूपसंसारकारणं दुःखं शारीरं मानसं वा । न हि अनारको नरके दुःखमनुभवति एवमितरत्रापि । तस्माद् रागद्वेषादयः पञ्चकर्मबन्धहेतवो नारकादिभवसन्ततः भवपरम्परायाः मूलं वाजं प्रतिष्ठेति ॥५७॥