________________
कारिका ६२-६३] प्रशमरतिप्रकरणम्
४३ न कंचन सत्वमपहन्ति । उञ्छमेव उञ्छमात्रम्, तेन तादृशा यात्रायामधिकारो यस्य स उञ्छमात्रयात्राधिकारः । यात्रा तु अहोरात्राभ्यन्तरे विहितक्रियानुष्ठानम्, तत्राधिकृतस्य 'नियुक्तस्य' इत्यर्थः॥ ६॥
जिनीषितोऽर्थ उत्पादव्ययध्रौव्ययुक्तो जीवादिः सप्तविधः । स गणधरैः सूत्रेण सूचितः। तस्यार्थस्यसद्भावं भावयति तच्छीलस्य। एवमेतत्-तद्यथा भगवद्भिरुक्तं गणधरैदधे तथैवायम्, नान्यथा' इति जिनभाषितार्थसद्भावभाविनः । विदितम्-अवगतं लोकतत्त्वं येनासौ विदितलोकतत्त्वः । जीवाजीवाधारक्षेत्रं लोकः, तस्य तत्त्वं परमार्थः-नास्त्यत्र वालाग्रप्रमाणोऽपि प्रदेशो यत्र त्रसत्वेन स्थावरत्वेन वा नोत्पन्नो मृतो वा यथासंभवम् । अथवा अधोमुखमल्लकाकृतिः, मध्ये स्थालाकारः उपरि मल्लकसमुद्गाकारो नारकतिर्यग्मानुष देवाधिवासो जन्मजरामरणोपद्रवबहुलः । अष्टादशाङ्गशीलाङ्गसहस्रधारणे कृतप्रतिज्ञस्य-अष्टादशशीलाङ्गसहस्राणि उपरि वक्ष्यमाणानि 'धर्माद्भुम्यादीन्द्रिय' इत्यस्यां कारिकायाम् । 'अष्टादशशीलाङ्गसहस्राणि धारयितव्यानि यावज्जीवं मया ' इति आरूढप्रतिज्ञस्य ॥ ६१ ॥
विशुद्धिप्रकर्षयोगादपूर्वः परिणाम उच्यते मनसः, तमनुप्राप्तस्य । शुभभावनाध्यवसितस्य । अध्यवसितमध्यवसायः । शुभभावनाः-पञ्चानां महाव्रतानां पञ्चविंशतिर्भावनाः परिपठिताः, अनित्यत्वादिको वा वक्ष्यमाणा द्वादश भावनाः, तदध्यवसायस्य । समये-सिद्धान्ते । अन्योन्यम्-परस्परम् । 'द्वयोर्विशेषयारेयमुत्तरः प्रधानम् , अमुष्मादप्ययं विशेषः प्रधानतरः' इत्यादिविशेषमतिशयं पश्यतो भावनामयेन ज्ञानेनेति ॥ ६२॥
वैराग्यपथप्रस्थितस्य । सम्यग्दर्शनादित्रयं वैराग्यमार्गः । संसारवासच्चकितस्य ' त्रस्तस्य ' इत्यर्थः। स्वहितम्-ऐकान्तिकादिगुणयुक्तं मुक्तिसुखम्, तदेवार्थः। स्वहितार्थे
आभिमुरव्येन रता बद्धा प्रीतिर्मतिर्यस्य तस्यैवंप्रकारस्य शुभेयमुत्पद्यते चिन्ता । ‘इयम्' इति वक्ष्यमाणा, निर्जराहेतुत्वात् शुभा, जायते चिन्ता। अत्र कुलकपरिसमाप्तिः ॥ ६३ ॥
* अर्थ-इस दोष-जालके मूल कारणको जानकर जो उसको छेदनेमें युक्त है, सम्यग्दर्शन, सम्यक्चारित्र, तप, स्वाध्याय और ध्यानसे युक्त है, हिंसा, झूठ, चोरी, मैथुन और ममत्वसे विरक्त है, नवकोटि और उद्गमसे शुद्ध अल्प आहार मात्रसे अपना निर्वाह करता है, जिनभगवान्के द्वारा कहे गये जीवादि तत्त्वोंके अस्तित्वको मानता है, लोकके स्वरूपको जानता है, शीलके अट्ठारह हजार भेदोंका पालन करनेकी प्रतिज्ञा ले चुका है, अपूर्व परिणामवाला है, शुभ भावनाओंमें निश्चल है, आगमके विषयमें परस्परमें जो उत्तरोत्तर विशेषता है, उसे जानता है, वैराग्यके मार्गमें स्थित है, संसारके निवाससे भयभीत है, और अपने हित-मोक्षमें लवलीन है, उसीको आगे कही गई शुभ चिन्ता उत्पन्न होती है।
भावार्थ-पहली कारिकामें जो दोषोंका जाल बतलाया गया है, उसके मूल कारणको जानकर जो उसके छेदनेमें उत्साह करता है कि 'मुझे यह महाजाल छिन्न-भिन्न करना चाहिए' तथा जिसमें ऊपर कही अन्य बातें पाई जाती हैं, उसको ही आगे कही गई शुभ चिन्ता उत्पन्न होती है ।
. १ तच्छीलश्व-मु. । २ अष्टादशशीलाङ्गसहस्रधारिणः-मु. । ३ शुद्धप्र-मु० । ४.मनस्त-मु०। ५ अनित्यत्वाविका वक्ष्य-मु०।