Book Title: Prashamrati Prakaranam
Author(s): Rajkumar Jain
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 183
________________ १७४ रायचन्द्र जैनशास्त्रमालायाम् [ अष्टादशोधिकारः, क्षपकश्रेणी किं भवतीत्याह नित्योद्विमस्यैवं क्षमा प्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य || २५१ ॥ टीका - नित्यमित्यहर्निशमुद्विग्नो भीतः संसारात् । एवमुक्तेन प्रकारेण । क्षमाप्रधानस्य क्षमामूलत्वाद्धर्मस्य तत्प्रधानत्वम् । निर्गताभिमानस्य गर्वरहितस्येति । धुतमायाकलिमलनिर्मलस्य धुतो विक्षिप्तो मायैव कलिमलः कल्मषं पापं तत्क्षपयतः जितस्य ( सर्व ) लोभकषा यस्य ।। २५१ ।। तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रु वर्गस्य । समवासीचन्दन कल्पन प्रदेहादिदेहस्य || २५२ ॥ टीका-तुल्यमरण्यं कुलाकुलश्च जनपदः सदृशः स्वात्मकार्यव्यगत्वात् । यादृगरण्यं तादृग् जनाकुलमपि । विविक्तबन्धुजनशत्रु वर्गस्य बन्धुजनः स्वजनलोक: शत्रुवर्गो रिपुसमूहस्तौ विविक्तौ यस्य पृथग्भूतात्मनः सकाशात् । यथा बन्धुवर्गस्तथा शत्रुवर्गः, मत्तोन्य एव बन्धुवर्गः शत्रुवर्गश्च विविक्तः, तत्र तुल्यचित्तवृत्तिः । यथा स्वजनवर्गस्तथा शत्रुवर्गोऽपीति । तथा समस्तुल्योः यो वास्या तक्ष्णोति यश्च चन्दनादिनोपलिम्पति । कल्पनं तक्षणम्, प्रदेह उपलेपनं चन्दनादिभिः । तत्र समवासी चन्दन कल्पनप्रदेहो ( हादिर्यस्यैवंविधोदेहो ) यस्य स एवमुक्तः ॥ २५२ ॥ आत्मारामस्य सतः समतृणमणिमुक्तलोष्ठकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५३ ॥ टीका - आत्मन्येवारमति प्रीतिं करोति स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं बध्नाति । समं तुल्यं तृणं दर्भादि मणयश्च पद्मरागादयः लोष्ठं काञ्चनं च मुक्तं येन नाभिलषितम्यथा लोष्ठः मृत्पिण्डो नाभिलष्यते एवं कनकमपि । एतदुक्तं भवति न मृत्पिण्डस्तृष्णास्पदं तथा कनकमपि यस्य स मुक्तलोष्टकाञ्चनः । मुक्तं परित्यक्तम् । स्वाध्यायो वाचनादिपञ्चप्रकारः । ध्यानं धर्मादितत्परायणस्तद्वयग्रस्तदुपयोगः । दृढं बाढं सुष्ठु । अप्रमत्तस्य सकलप्रमादपरिहारिणः ॥ २५३ ॥ अध्यवसायविशुद्धेः प्रमत्तयोगैर्विशुद्धयमानस्य । चारित्रशुद्धिमग्न्यमवाप्य लेश्याविशुद्धिं च ।। २५४ ॥ १ - नास्त्यस्याः कारिकाया व्याख्या - फ० पुस्तके |

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242