________________
१७४
रायचन्द्र जैनशास्त्रमालायाम् [ अष्टादशोधिकारः, क्षपकश्रेणी
किं भवतीत्याह
नित्योद्विमस्यैवं क्षमा प्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य || २५१ ॥
टीका - नित्यमित्यहर्निशमुद्विग्नो भीतः संसारात् । एवमुक्तेन प्रकारेण । क्षमाप्रधानस्य क्षमामूलत्वाद्धर्मस्य तत्प्रधानत्वम् । निर्गताभिमानस्य गर्वरहितस्येति । धुतमायाकलिमलनिर्मलस्य धुतो विक्षिप्तो मायैव कलिमलः कल्मषं पापं तत्क्षपयतः जितस्य ( सर्व ) लोभकषा
यस्य ।। २५१ ।।
तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रु वर्गस्य । समवासीचन्दन कल्पन प्रदेहादिदेहस्य || २५२ ॥
टीका-तुल्यमरण्यं कुलाकुलश्च जनपदः सदृशः स्वात्मकार्यव्यगत्वात् । यादृगरण्यं तादृग् जनाकुलमपि । विविक्तबन्धुजनशत्रु वर्गस्य बन्धुजनः स्वजनलोक: शत्रुवर्गो रिपुसमूहस्तौ विविक्तौ यस्य पृथग्भूतात्मनः सकाशात् । यथा बन्धुवर्गस्तथा शत्रुवर्गः, मत्तोन्य एव बन्धुवर्गः शत्रुवर्गश्च विविक्तः, तत्र तुल्यचित्तवृत्तिः । यथा स्वजनवर्गस्तथा शत्रुवर्गोऽपीति । तथा समस्तुल्योः यो वास्या तक्ष्णोति यश्च चन्दनादिनोपलिम्पति । कल्पनं तक्षणम्, प्रदेह उपलेपनं चन्दनादिभिः । तत्र समवासी चन्दन कल्पनप्रदेहो ( हादिर्यस्यैवंविधोदेहो ) यस्य स एवमुक्तः ॥ २५२ ॥
आत्मारामस्य सतः समतृणमणिमुक्तलोष्ठकनकस्य ।
स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५३ ॥
टीका - आत्मन्येवारमति प्रीतिं करोति स्वकार्य एव व्याप्रियते, न बहिः प्रीतिं बध्नाति । समं तुल्यं तृणं दर्भादि मणयश्च पद्मरागादयः लोष्ठं काञ्चनं च मुक्तं येन नाभिलषितम्यथा लोष्ठः मृत्पिण्डो नाभिलष्यते एवं कनकमपि । एतदुक्तं भवति न मृत्पिण्डस्तृष्णास्पदं तथा कनकमपि यस्य स मुक्तलोष्टकाञ्चनः । मुक्तं परित्यक्तम् । स्वाध्यायो वाचनादिपञ्चप्रकारः । ध्यानं धर्मादितत्परायणस्तद्वयग्रस्तदुपयोगः । दृढं बाढं सुष्ठु । अप्रमत्तस्य सकलप्रमादपरिहारिणः ॥ २५३ ॥
अध्यवसायविशुद्धेः प्रमत्तयोगैर्विशुद्धयमानस्य । चारित्रशुद्धिमग्न्यमवाप्य लेश्याविशुद्धिं च ।। २५४ ॥
१ - नास्त्यस्याः कारिकाया व्याख्या - फ० पुस्तके |