Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पिण्डविशुद्धि ० टीकाद्वयो
पेतम्
॥ ८५ ॥
एतस्य दोषत्वमनाश्रीयमाणत्वात् । अथ संयोजनादोपव्याख्यानायाह-प्रथमा-ऽऽद्या संयोजनेत्यर्थी वसते - रुपाश्रयाहिस्ताद्भिक्षाटन इत्यर्थः, अन्तरे वा-बमतिमध्ये वेति अथवा रसतो - विशिष्टास्वादनिमित्तं द्रव्याणां दुग्धदध्योदनादीनां 'संयोगो' मीलनं तस्मिन्सति संयोजना, भवतीति पूर्वेण योगः, तत्र बहिर्मक्तपानसंयोजना- भिक्षामटतो दुग्धदध्यादिलाभे गुडादिप्रक्षिपतोऽन्तर्भक पानसंयोजना पुनः-पात्रे मुखे च स्यात्तत्र पात्रे मण्डकगुडघृतादि संयोज्य भक्षयत, एतान्येव मुखप्रक्षेपेण संयोजयतो मुखसंयोजना, पिण्डप्रस्तावाच्चैवमुच्यते, अन्यथा उपकरणं गवेषयत एव साधो वोलपकाद्यवासौ विभूषाप्रत्ययमन्तकल्पं याचित्वा परिशुञ्जानस्य बहिरूपकरण संयोजना, वसतौ चाऽऽगत्य तथैव परिभुञ्जानस्यान्तरुपकरणसंयोजनेत्याद्यपि द्रष्टव्यमिति । इह च रसहेतोरिति विशेषणेन कारणतः संयोजनायामपि न दोष इत्यावेदयति, यदाह-"रसहेउं संजोगो, पडिसिद्धी कप्पए गिलाणड्डा । जस्स व अभत्तछंदो, सुहोचिओ भाविओ जो य ॥१॥ " सुगमा, नवरं यस्य चाडद्वारेऽरुचिस्तथा यः शुभाद्वारोचितो राजपुत्रादिर्यश्च साधूचिताहारेणाऽभावितस्तस्य संयोगोडनुज्ञात इति गाथार्थः ॥ ९४ ॥ अथाऽऽहारप्रमाणं प्रतिपादयन्नाह -
दी० - ' संयोजना' रसगृद्ध्या गुणान्तरार्थं द्रव्यान्तरसंयोजनं १, अप्रमाणं मानमतिक्रम्य भोजनं २, 'अङ्गार' इति चारित्रेन्धनस्याङ्गारस्यैव करणात् ३, 'धूम'त्ति चारित्रेन्धनस्य धूमवत इत्र करणं, वन्तुलोपाम ४, अकारणं - भोजन हेत्वनाश्रयणं ५, एतद्व्याख्यामाह - एषु पञ्चसु प्रथमा संयोजना स्याद् 'वसते' रुपाश्रया' दहि' र्भिक्षाटने रसहेतोर्विशिष्टास्वादनार्थे 'द्रव्यसंयोगाद्' दुग्धादौ गुडादिक्षेपात् 'वा' अथवा 'अन्तरे' बसतेर्मध्ये पात्रे मुखे च तथा करणात् पिण्डप्रस्तावादिदमत्रोक्तं,
256
ग्रासपणादोषपञ्चक
देस्तत्र
संयोज
नायाः
स्वरूपम
॥ ८५

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290