Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 265
________________ " लिंगस्थस्स उ वज्जो, तं परिहरओव्व भुंजओ वा वि । जत्तस्म अजुत्तस्स व रसायणो तत्थ दिहंतो ॥१॥" अस्या भावार्थ:-लिङ्गस्थस्य यः शय्यातरस्तस्य पिण्डो वर्ज्य:, तं शय्यातरपिण्डं परिहरतो वा भुञ्जानस्य वाऽपि तथा युक्तस्य श्रामण्यगुणैरयुक्तस्य [1] तैरेव, अत्र 'रसापणो' मद्यविपणिस्तस्य + दृष्टान्तो यथा - किल महाराष्ट्रविषये X कल्पपालापणेषु मद्यं भवतु वा मा वा तथापि ध्वजो चन्यते तं च दृष्ट्रा सर्वेऽपि भिक्षाचरादयः परिहरन्ति, अभोज्यमिति कृत्वा, एवमत्रापि यस्य धर्मध्वजो दृश्यते तस्य शय्यातशे वर्जनीय इति ६ । दोषा वा के १ तस्य पिण्डे गृह्यमाण इत्यत्र कथ्यतेतीर्थकर निषिद्धत्वादयो बहवः, यदाह- 44 तित्थर पडकुडी, अन्नायं उग्गंमो विनय सुज्झे । अविमुक्ति अलाघवयौ, दुल्लह सेजी य वोच्छेओ ॥१॥” अस्यार्थः - तीर्थकरैराद्यान्तिममध्यमविदेहजिनैः 'प्रतिक्रुष्टः' स्वसाधूनां तदाश्रयस्थानामन्याश्रयस्थानां वा निषिद्धः शय्यातर पिण्डः, यदाह- "पुरपच्छिमवज्जेहिं, अविक्रम्मं जिणवरेहिं लेसेणं । भुत्तं विदेहएहि य, न य सागरियस्स पिंडो उ ॥ १ ॥ " 'लेशेने' ति यस्यैवैकस्य कृते कृतं तस्यैवैकस्य न कल्पते, शेषसाधूनां तु कल्पत एवेत्यंशेनेति १ । कस्मादेवमित्याह'अज्ञातस्था' ऽविदितस्य *राजादिप्रव्रजित्वेन यद्भैक्षं तदज्ञातमुच्यते, तदेव च प्रायः साधुना ग्राह्ये, “अन्नायउंछं चरई +- नास्त्ययं शब्दो भाण्डारकरी यातिरिक्तासु प्रतिकृतिषु । X सर्वास्वपि प्रतिकृतिषूपलभ्यते "कल्पपाल" इति, अभिघाचिन्तामणौ तु "कल्यपालः 'सुराजीवी" इत्यस्ति । * “प्रब्रजितो नृपाविर्भिक्षार्थं यस्य गृहे प्रविष्टो न प्रत्यभिज्ञायते, तस्य सम्बन्धि । इति टि. अ. 1 265

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290