Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
गृहे प्रथममेव (कारणतो) भिक्षा गृहन्ति, कालेन च स निर्धनो जातस्ततश्च तैः साधुभिर्गतैरन्ये समागतास्तैरपि तत्पार्थे सैव वसतिचिता, +स प्राह गरिव मे वशनिवारं निर्धनोनिदाशी, नास्ति प्रथमभिक्षादानयोग्य किमपीत्यतो न वसतिं दास्यामीति । साधुभिरुक्तं-शय्यातरमिक्षाऽस्माकं न कल्पतेऽतो देहि शय्या, स (xच पूर्वसाधुवचनाभिसंस्कृतमतिः) प्राह-अस्मद्गृहाद्रिक्तभाजना निर्गच्छन्तो भवन्तोऽमङ्गलं स्युरतो न दास्यामीति, ततस्तं प्रज्ञाप्य कष्टेन गृहीतेति, एवं दुर्लभा शय्या मवतीति । तथा 'व्यवच्छेदों विनाशो दानभयाच्छय्यायाः शय्यातरेण क्रियते, वसत्यभावाद्भक्तपानशिष्यादेर्वा व्यवच्छेद: स्यादिति । अथैते दोषाः प्रायः पिण्डान्तरग्रहणेऽपि समाना:, अतः कोऽत्र भावार्थः १ इत्यत्रोच्यते"पडिबंधनिराकरण, केई अन्नेगिहीयगहणस्स । तस्साउंटणमाणं, एत्थऽचरे येति भावत्थं ॥१॥" - प्रतिबन्धनिराकरणं-साधुशय्यातरयोर्योऽत्यन्तोपकार्योपकारकभावेन स्नेहस्तनिरासं, केचिदाचार्या, भावार्थ ब्रुवन्तीति योगः । अन्ये पुनराचार्या अगृहीतग्रहणस्य-साधुमिरस्वीकृतभक्तादिदातव्यद्रव्यस्य शय्यातरस्याऽऽकुण्टन-मावर्जनमहो । नि:स्पृहा एतेऽतो वसत्यादिदानतः पूज्या इति भावोत्पादनात् । तथा आज्ञा आप्तोपदेश, अत्र-शय्यातरपिण्डपरिहारे 'अपरें अन्ये 'त्रुवन्ति' आहुर्भािवार्थ वात्पर्यमिति सप्रसनं दोषद्वारं७ तथा तस्य पिण्डः कस्मिन् कारणजाते कल्पते। तत्रोच्यते-- "दुविहे गेलन्नंमी, निमंतणे दवदुल्लभे असिवे। ओमोयरियपओसे, भएण गहणं अणुब्रायं ॥ १॥"
द्विविधं ग्लानत्वं-अत्यागाढमनागाढं च, तत्राऽत्यामा क्षिप्रमेव प्रायोग्याद्रव्यग्रहणं कर्चव्यं, अनागाढे त्वन्यबालाभ * शब्दोऽयं भा. अ.प्रतिकृत्योरेव। “स तान्प्रत्याइ-" या केवलं मां० प्रतावेवायं पाठः । * "प्रायोग्यग्रहणं" ५० अ०६० क०।
267
441

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290