Book Title: Pindvishuddhi Prakaranam
Author(s): Udaysinhsuri, Buddhisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
विकलेन्द्रिय- पश्चेन्द्रियावयव निष्पत्तिमेदात्रिविधं भवति । तत्रैकेन्द्रियावयवनिष्पन्नं कार्पासिकादि, विकलेन्द्रियावयवनिष्प कौशेयकादि, ऊर्णादिमयं तु तृतीयं अत्र कारणग्राह्यं कौशेयकादि । एतदपि जघन्य मध्यमोत्कृष्ट मेदात्प्रत्येकं त्रिविधं तत्र जघन्यं मुखपोतिकादि, मध्यमं बोलपट्ट-पटलकादि, उत्कृष्टं प्रच्छदादि, एतदपि पुनः प्रत्येकं यथाकृता-रप-बहुपरिकर्म मेदात्रिधा भिद्यते, एतेषु च गृह्णद्भिः पूर्वं यथाकृतं ग्राही, सर्वोपाधिविशुद्धत्वात्तस्य तदलामे चाल्पपरिकर्म ग्राह्मे, स्तोकदोषत्वातस्य तस्याभावे बहुपरिकर्मापि ग्राह्यं एतच्च सर्वमपि वस्त्रं गच्छतैरेताभिश्चतसृभिः प्रतिमाभि-रेषणाभिरित्यर्थः, गवेषणीयम् ।
"उ १ पेह २ अंतर ३ उज्झियधम्मा ४ " इति । तत्रोद्दिष्टा यद्गुरुसमक्षं स्वयं प्रतिज्ञातं जघन्यादिकमेकेन्द्रियावयव निष्पन्नादिकं वा वस्त्रं तदेव गृहिभ्यो याचमानस्य स्यादिवि, १ । प्रेक्षा नाम वस्त्रमवलोक्य नवीति साधुर्यथाभोः श्रावक ! याशमिदं दृश्यते तादृशमिदं वा मे देहि २ । हृदय परिक्षानव प्रावरणव वा शय्याया अघस्तन वस्त्रमुपरितनवस्त्रं वाऽन्यद्धोक्तुकाममयेतनं च मोक्तमनसं दादारमत्रान्तरे याचमानस्येति ३ । चतुर्थी पुनः स्त्रदेश बहुवखदेशं वा गन्तुकामाः कार्पदिकादयो यदुज्झन्ति बहुवखदेशे वा यत्यक्तं लभ्यते, तथाचितमयाचितं वा गृह्ण स्यादिति ४ | जिनकल्पिकास्त्वासां मध्यादुपरितनद्वयादन्यतरयैवाऽऽददते, न त्वाद्यद्वयेनेति । तत्पुनः केन विधिना गच्छवासिन उत्पादयन्ति ? इति चेदुच्यते यद्यस्य साघोर्बनं नास्ति स तत्प्रवर्त्तिसाधवे निवेदयति, सोऽपि च गुरुम्यो, यथाअमुकस्य साधोरकं नखं नाऽस्तीति । गच्छे चेयं सामाचारी, यदुताऽऽभिग्रहिकसाधवो भवन्ति यथाऽस्माभिर्वस्त्राणि पात्राणि वाऽन्येन वा येन केनचिद्वस्तुना साधूनां प्रयोजनं तदानेतव्यं, व्रत आचार्यस्तेभ्यो निवेदयति, यथा-हे आर्या ! अमुकस्य
275
•

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290