SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि ० टीकाद्वयो पेतम् ॥ ८५ ॥ एतस्य दोषत्वमनाश्रीयमाणत्वात् । अथ संयोजनादोपव्याख्यानायाह-प्रथमा-ऽऽद्या संयोजनेत्यर्थी वसते - रुपाश्रयाहिस्ताद्भिक्षाटन इत्यर्थः, अन्तरे वा-बमतिमध्ये वेति अथवा रसतो - विशिष्टास्वादनिमित्तं द्रव्याणां दुग्धदध्योदनादीनां 'संयोगो' मीलनं तस्मिन्सति संयोजना, भवतीति पूर्वेण योगः, तत्र बहिर्मक्तपानसंयोजना- भिक्षामटतो दुग्धदध्यादिलाभे गुडादिप्रक्षिपतोऽन्तर्भक पानसंयोजना पुनः-पात्रे मुखे च स्यात्तत्र पात्रे मण्डकगुडघृतादि संयोज्य भक्षयत, एतान्येव मुखप्रक्षेपेण संयोजयतो मुखसंयोजना, पिण्डप्रस्तावाच्चैवमुच्यते, अन्यथा उपकरणं गवेषयत एव साधो वोलपकाद्यवासौ विभूषाप्रत्ययमन्तकल्पं याचित्वा परिशुञ्जानस्य बहिरूपकरण संयोजना, वसतौ चाऽऽगत्य तथैव परिभुञ्जानस्यान्तरुपकरणसंयोजनेत्याद्यपि द्रष्टव्यमिति । इह च रसहेतोरिति विशेषणेन कारणतः संयोजनायामपि न दोष इत्यावेदयति, यदाह-"रसहेउं संजोगो, पडिसिद्धी कप्पए गिलाणड्डा । जस्स व अभत्तछंदो, सुहोचिओ भाविओ जो य ॥१॥ " सुगमा, नवरं यस्य चाडद्वारेऽरुचिस्तथा यः शुभाद्वारोचितो राजपुत्रादिर्यश्च साधूचिताहारेणाऽभावितस्तस्य संयोगोडनुज्ञात इति गाथार्थः ॥ ९४ ॥ अथाऽऽहारप्रमाणं प्रतिपादयन्नाह - दी० - ' संयोजना' रसगृद्ध्या गुणान्तरार्थं द्रव्यान्तरसंयोजनं १, अप्रमाणं मानमतिक्रम्य भोजनं २, 'अङ्गार' इति चारित्रेन्धनस्याङ्गारस्यैव करणात् ३, 'धूम'त्ति चारित्रेन्धनस्य धूमवत इत्र करणं, वन्तुलोपाम ४, अकारणं - भोजन हेत्वनाश्रयणं ५, एतद्व्याख्यामाह - एषु पञ्चसु प्रथमा संयोजना स्याद् 'वसते' रुपाश्रया' दहि' र्भिक्षाटने रसहेतोर्विशिष्टास्वादनार्थे 'द्रव्यसंयोगाद्' दुग्धादौ गुडादिक्षेपात् 'वा' अथवा 'अन्तरे' बसतेर्मध्ये पात्रे मुखे च तथा करणात् पिण्डप्रस्तावादिदमत्रोक्तं, 256 ग्रासपणादोषपञ्चक देस्तत्र संयोज नायाः स्वरूपम ॥ ८५
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy