Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 178
________________ प्रौढोल्लासः चतुर्थः-श्यामाक्रमः श्यामोपासकनियमाः एतदुपासकस्यावश्यानुष्ठेयाः नियमाः यथा कदम्बतरुं न छिन्द्यात् । वाचा 'कालीति पदं नोच्चारयेत् । वीणावेणुवादननर्तनगाधागोष्ठीषु प्रवर्तमानासु पराङ्मुखो न भवेत् । गायकान् न निन्द्यात् इति ॥ पुरश्चरणसंकल्पः एवं नित्यसपर्यो निर्वर्तयन् पुरश्चरणमाचरेत् । तच्च जपहोमतर्पणब्राह्मणभोजनाख्याङ्गचतुष्टयसमष्टिरूपम् । तत्प्रकारस्तु-दीक्षाप्रकरणोक्तकाले श्रीगुर्वनुज्ञातो ब्राह्मणैः स्वस्ति वाचयित्वा आचम्य प्राणानायम्य अमुकशर्मवर्मादिरहं श्यामामन्त्रसिद्धिकामो लक्षसङ्ख्याकं जपं, प्रकृते कलियुगत्वात् तच्चतुर्गुणितं, तद्दशांशहवन-तद्दशांशतर्पणतद्दशांशब्राह्मण भोजनानि च करिष्य इति सङ्कल्पयेत् । एवं तत्तन्मन्त्रेषु तत्र तत्र प्रोक्तजप सङ्ख्याऽऽदिसङ्कल्पो ज्ञेयः ॥ मत्रजपः अथ सति सम्भवे तन्त्रान्तरदृष्टेन विधिना ग्रामात् बहिः क्रोशे नगराच्च क्रोशद्वये क्षेत्रं परिगृह्णीयात् । अथवा समुद्रमहानदीतीरयोः पश्चिमाभिमुखवृषशून्यशिवायतनयोः विष्णुगृहपुण्यक्षेत्रतीर्थारण्यपर्वतशिखराश्वत्थबिल्वमूलविविक्तनिजगृहगोष्ठानां श्रीगुरुस्वेष्टदेवतासन्निध्योश्चान्यतमं देशमासाद्य दीपस्थानविन्यस्ते व्याघ्रचर्ममृगाजिनचित्रकम्बलकुशकटरक्तपटपट्टवसनोर्णावस्त्राद्यन्यतमे आसने उपविश्य विनानुत्सार्य प्राणानायम्य सङ्कल्प्य वक्ष्यमाणलक्षणया अक्षमालया वक्ष्यमाणसंस्कारया रुद्राक्षाद्यन्यतमया वा मालया पूर्वाङ्गमन्त्रपूर्वकं प्रत्यहं सहस्रसङ्ख्याकं मूलमन्त्र तद्दशांशान् उत्तराङ्गमन्त्रांश्च जप्त्वा पुनासादिकं कृत्वा । पूर्वाङ्गमन्त्रो यथा 1 कमलिनीपदं-भ. भोजनतद्दशांशमार्जनानि च करिष्ये इति संकल्पयेत् । अपसंख्या १०००.., तद्दशांशहोमसंख्या १००००, तद्दशांशतर्पणसंख्या १०००, तद्दशांशब्राह्मणभोजनसंख्या १००, तइशांशमार्जनसंख्या १०॥ एवं-बर. ३ संख्यऽऽदिकल्पो-अ१.

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247