Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 231
________________ २१० नित्योत्सवः प्रादक्षिण्यक्रमेणास्माच्चतुष्कत्रितयं परम् ॥ साध्यं तथा सुसिद्धं च शत्रुश्चेत्यभिधीयते ॥ एकैकस्मिन् चतुष्केऽपि यस्मिन् कोष्ठे तदक्षरम् । तदाद्युक्तक्रमेणैव सिद्धसाध्यादिकल्पना ॥ एवं साध्यचतुष्कादौ तत्तुल्यस्थानकोष्ठतः । साध्यसिद्धः साध्यसाध्यः इत्याद्याख्याः क्रमान्मताः ॥ 'सिद्ध सिद्धप्रभृत्यर्थं न तत्षोडशसद्मसु । यत्र यस्य मनोराद्यो वर्णः सोऽपि तदाह्वयः ॥ स्पष्टोऽर्थः ॥ अथैतेषां फलानि कुलमूलावतारे सिद्धः सिध्यति कालेन साध्यः सिध्यति वा न वा । सुसिद्धस्तत्क्षणादेव अरिर्मूलं न कृन्तति ॥ इति ॥ तन्त्रराजे - सिद्धसिद्धो जपात् सिध्येत् द्विगुणात् सिद्धसाध्यकः । सिद्धः सुसिद्धः संप्राप्तेः सिद्धारिर्हन्ति गोत्रजान् ॥ साध्यसिद्धोऽतिसंक्लेशात् साध्यसाध्योऽतिदुःखकृत् । साध्यसुसिद्धो भजनात् साध्यारिः स्वस्त्रियं हरेत् ॥ सुसिद्धसिद्धोऽर्धजपात फलं दद्यात् यथेप्सितम् । सुसिद्धसाध्यो जापाद्यैः सिद्धये स्यादतोऽन्यथा ॥ सुसिद्धे च सुसिद्धस्तु पूर्वजन्मकृतश्रमः । तस्मात् तं सर्वसिद्धीनां साधने योजयेन्मनुम् ॥ सुसिद्धारिरशेषेण स्वकुलं मारयेत् ध्रुवम् । अरिसिद्धः सुतं हन्यादरिसाध्यस्तु कन्यकाम् ॥ तत्सुसिद्धस्तु पत्नीं स्वामर्यरिः साधकापहः ॥ इति ॥ संप्राप्तेः प्राप्तिमात्रात् । जापाद्यैरित्याद्यिशब्देन होमतर्पणब्राह्मणभोजनानि गृह्यन्ते ॥ 1 सिद्धसाध्यप्रभृत्यर्णः यन्त्रषोडशसद्मसु – अ१.

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247