Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
अनवस्थोल्लासः सप्तमः साधारणक्रमः
प्रासादे प्रणवे तद्वत् सपिण्डाक्षरमन्त्रके । मृत्युञ्जये च पाशाद्ये वैष्णवे चण्डनायके ॥ व्योमव्यापिनि मायायां मालामन्त्रेष्वघोरके । एकत्रिपञ्चषट्सप्तेभाङ्करुद्राक्षरेषु च ॥ नपुंसके च दन्तार्णे काळिकाश्यामळामनौ । सिद्धकाळीचण्डिकयोः मन्त्रे राममनुष्वपि ॥ गोपालमातृकामन्त्रे हरवल्लभया सह । श्रीविद्या सिद्धविद्या च मातङ्गी भुवनेश्वरी ॥ पद्मावती मधुमती दत्तात्रेयश्च पार्वती । मित्रेशोड्डीशषष्टीशचर्यानन्दमनुष्वपि ॥ सप्तप्रणवमन्त्राणां हरिद्रोच्छिष्टयोरपि । आसुरी सुमुखी चैव रेणुका च सरस्वती ॥ कुम्भोद्भवाणवश्चैव मतङ्गगणिकस्य च । शाबराणां च मन्त्राणां वृद्धजप्तमनुष्वपि ॥ कुलागतानां मन्त्राणां सिद्धान्नैव शोधयेत् । बहुरूपाह्वये मन्त्रे जैनबौद्धमनुष्वपि ॥ सिद्धारित्वादि धनितामृणितां च न शोधयेत् ॥
कूटे कूटाक्षरे मन्त्रे । स्त्री समर्पिते स्त्रीविशेषसमर्पिते इत्यर्थः । तथा च तन्त्रान्तरे
I
साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया । सर्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता । गुरुयोग्या भवेत् सा हि विधवा परिवर्जिता ।
यो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता ॥ इति ॥
२१३
स्वप्न लब्ध इत्यत्र च कर्तव्यताविशेषो यथा
स्वमलब्धे तु कलशे गुरोः प्राणं निवेश्य च ।
वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम् । ततः शुद्धिमवाप्नोति झन्यथा विफलं भवेत् ॥ इति ॥

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247