Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
नित्योत्सवः अस्यार्थः-साध्यवर्णान् स्वरव्यञ्जनरूपेण पृथक् पृथक् तान् षट्कलाद्यकैः गणितान् तथा साधकनामाक्षरान् युग्मायकैः गणयित्वा, अष्टसङ्ख्याभिः हृत्वा उभयोश्च साध्यसाधकयोः अधिकं ऋणं शेषं धनं ज्ञात्वा मन्त्रं दद्यात् ॥
यदा मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति । धनी चेन्मन्त्रे यद्यधिकाङ्कः स्यात् तदा मन्त्र जपेत् सुधीः ।। समेऽपि च जपेन्मन्त्रं न जपेत्तु ऋणाधिकम् । शून्ये मृत्युं विजानीयात् तस्माच्छून्यं परित्यजेत् ॥
रुद्रयामळे
इन्द्रक्षनेत्ररविपञ्चदशर्तुवेद
वयायुगाष्टनवभिर्गणितांश्च साध्यान् । दिग्मुर्गिरिः[१]श्रुतिगजाभिमुनीषुवेद
षड्वह्निभिस्तु गणितानथ साधकार्णान् ॥ नामाज्झलादित्यादिवचनं विष्णुविषयम् , रामार्चनचन्द्रिकोद्धृतत्वात् इति केचित् । वस्तुतस्तु-पूर्वस्यैव विचारणं हृतशेष इन्द्रःर[?] मित्यादिनामाक्षरमारभ्य यावत् साधकाक्षरं भवेत् तावत्सङ्ख्यं सप्तगुणं कृत्वा त्रिभिः हरेत् । यद्वा
साध्यनामाद्विगुणितं साधकेन समन्वितम् ।
अष्टभिश्च हरेच्छेषं तदन्यद्विपरीतकम् ॥
अस्यार्थः-साध्यनामाद्विगुणितं साधकाक्षरसमन्वितम् । अष्टभिश्च हरेत्तदन्यत् । साधकनामानं स्वरव्यञ्जनभेदेन द्विगुणीकृत्य साध्येन युक्तं कृत्वा अष्टमिः हरेत् ॥ इति ऋणीधनीचक्रम् ॥ इति कुलाकुलचक्रविचारः ॥
कुलाकुलचक्रविचारापवादः अथ तदपवादः--कुलार्णवसोमसिद्धान्तरत्नसागररुद्रयामळकुलमूलावतारागस्त्यसंहितासिद्धान्तशेखरादिवचनगतोऽपुनरुक्तः संगृह्यते
एकाक्षरे तथा कूटे त्रैपुरे स्त्रीसमर्पिते । स्वप्नलब्ध नृसिंहार्कवराहाणां मनुष्वपि ॥

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247