Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 238
________________ अनवस्थोल्लासः सप्तमः-साधारणक्रमः २१. मन्त्रदेवतां वा । चन्द ना दि भिः--आदिशब्देन पुष्पादीनि गृह्यन्ते । पञ्चोपचारः इत्यर्थः । स मुद्धरेत् स्वोपास्यमन्त्रवर्णान् क्रमेण तत्तत्कोष्ठेभ्यो गृहीत्वा पत्रान्तरे लिखेदित्यर्थः । जननं जननाख्यसंस्कारः । एवमेव दीपनादयोऽपि । हंस पुट स्य आद्यन्तयोः हंसमन्त्रसम्पुटितस्य । अस्य स्वोपास्यमन्त्रस्य । नभो हकारः, वह्निः रकारः, इन्दुः बिन्दुः, तैर्युक्तोऽर्षी ऊकारः, तेन ह्रूं एतेन सम्पुटितस्य मन्त्रस्य सहस्रपञ्चकजपेन बोधनमित्युक्तम् । अस्त्रं फटकारं, तत्पुटितेन मन्त्रेण सहस्रजप्तेन ताडनमित्युक्तम् । वागिति ऐं हंसः ओं इति त्रिभिरभिषिञ्चेत् । पत्रान्तरे लिखितं मनु कुशाग्रतोयबिन्दुभिः प्रोक्षयेदित्यर्थः । हरिः तकारः, वय न्वितो रकारयुतः, तारी प्रणवयुतः, त्रोम् । ध्रुवस्तारः तदा दि कः ॐ त्रों वषट् । तत्पुटं एभिः सम्पुटितम् । मा या ह्रींकारः । बा ला तृ ती य बीजं सौः, गगनं ह, सौरित्यनेन । शेष सुगममिति । तन्त्रसारादिषु तु संस्काराणां प्रयोगभेदोऽपि दृश्यते । एतेषां संस्काराणां सकृदेवानुष्ठानम् , नत्वभ्यासः इति दिक् ॥ पुष्पविचारः अथ प्राक्विकीर्षितः पुष्पविचारः पुष्पाणि तावत् पञ्चधा—परं अपरं उत्तमं मध्यमं अधमं चेति । मणिरत्नसुवर्णादिनिर्मितं कुसुमं परं, तच्च न कदाचिन्निर्माल्यम् । चित्रवसनादिकर्तनजं अपरम् , तच प्रतिदिनप्रोक्षणेन शुध्येत् । उत्तमं वृक्षभवं, तच्च प्रातरपचितं तत्सन्ध्यात्रितयावधि न निर्माल्यम् । मध्यमं फलरूपम् । अधमं पत्रजलरूपम् । एते च तत्तत्काल एवार्पणार्हे इति प्रयोगपारिजाते नारदः ॥ देवतायोग्यानि पुष्पादीनि भविष्यपुराणेपुष्पैररण्यसम्भूतैः पत्रैर्वा गिरिसम्भवैः । अपर्युषितनिच्छिद्रैः प्रोक्षितैर्जन्तुवर्जितैः ॥ आत्मारामोद्भवैर्वाऽपि भक्त्या सम्पूजयेत् सुरान् ॥ 74

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247