Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
२१५.
अनवस्थोल्लासः सप्तमः-साधारणक्रमः
मन्त्राणां संस्काराः लिजत्लादिकंपादोषशान्त्यै निरूप्यते । संस्कारदशकं सप्तकोटिमन्त्रगणे क्रमात् ॥ जननं जीवनं पश्चात् ताडनं बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥ जननं यथा
भूर्जपत्रे लिखेत् सम्यक् त्रिकोणं रोचनादिभिः । वारुणं कोणमारभ्य सप्तधा विभजेत् समम् ॥ एवमीशामिकोणाभ्यां जायन्ते तत्र योनयः । नववेदमितास्तत्र विलिखेन्मातृकाः क्रमात् ॥ अकारादिहकारान्तामीशादिवरुणावधि । देवीं तत्र समावाह्य पूजयेच्चन्दनादिभिः ॥ ततः समुद्धरेन्मन्त्रं जननं तदुदीरितम् ॥ दीपनं यथा
जपो हंसपुटस्यास्य सहस्रं दीपनं स्मृतम् ॥ (हंसः+मन्त्रः+सोऽहम् ॥) बोधनं यथा
नभोवहीन्दुयुक्ता/ सम्पुटस्य जपो मनोः । सहस्रपञ्चकमितो बोधनं तत् स्मृतं बुधैः ॥
(हरूं+मन्त्रः+हम् ॥) ताडनं यथा
सहस्रं प्रजपेदस्त्रपुटितं ताडनं तु तत् ॥
(फट+मन्त्रः+फट् ॥) 1 हंसंपु-ब२, १३, श्री.

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247