Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
३१४
नित्योत्सवः
इदं तु सद्गुरोरभावे । तत्संभवे तु तत एव गृह्णीयात् इति । प्रासादे प्रासादबीजाद्ये । पाशः पाशबीजम् । व्यो म व्यापि नि हकारादौ । माया यां हृल्लेखायाम् । अङ्के नवाक्षरे । दन्तार्णे द्वात्रिंशदक्षरे । हरिद्रो च्छिष्ट योः तत्तद्गुणपत्योः । अणुः मन्त्र इति । केषांचिन्मन्त्राणां शापाभाव उक्तो वातुलागमे
पुरा शापविहीनं च वर्तते मन्त्रपञ्चकम् । श्रीविद्यासाळुवं मन्त्रं नृसिंहार्कवराहकम् ॥ इति ॥
तन्त्रान्तरे तु —
मन्त्रादिषु च सर्वेषु हृल्लेखाकामबीजकम् ।
श्रीबीजं वा विनिक्षिप्य जपेन्मन्त्रस्य सिद्धये । तारसम्पुटितो वाऽपि दुष्टमन्त्रोऽपि सिध्यति ॥ इति ॥
हिरण्यगर्भसंहितायाम् —
स्वनामादिवर्णैः स्वमित्राक्षरैर्वा
मनुं सम्पुटीकृत्य येऽनुस्मरन्ति ॥
स मन्त्रस्तेषां सिध्यतीति शेषः । अनुस्मरणं जपः । तन्त्रान्तरे तु —
यत्र यस्य भवेत् भक्तिविशेषः स मनूत्तमः । वैरिकोष्ठमनुप्राप्तः सिद्धिदस्तस्य जायते ॥ गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिध्यति । गुरुं विलङ्घ्य शास्त्रेऽस्मिन्नाधिकारः सुरेश्वरि || इति ॥
अथापि रिस्कुन मन्त्रेण आभिचारादौ क्रियमाणे साधकस्यैवानिष्टापत्त्या सिद्धार्यादिविचारः कर्तव्य इति तन्त्रराजमतम् । वस्तुतस्तु --
नित्यनैमित्तिकान्मुक्तिः काम्यादैहिकमेव हि । प्रयोगात् परलोकस्य हानिरेव तु जायते ॥
इति वचनात् नित्यनैमित्तिकमात्रपरो भवेत् इत्युचितमिति दिक् ॥

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247