Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
२२२
नित्योत्सवः शक्तौ दूर्वार्कमन्दारान् मालूरं तगरं रवौ ।
विनायके तु तुळसी नार्पयेत् जातुचिबुधः ॥ इहार्कनिषेधो दुर्गेतरविषयः, विहितेषु तस्याप्युपादानात् ॥
मध्यमं फलरूपं कुसुमम् जम्बूदाडिमजम्भीरचिञ्चिणीबीजपूरकाः । रम्भा धात्री च बदरी रसाल: पनसोऽपि च ॥
एषां फलैर्यजेद्देवं . . . . . . . . . . . . ॥ देवमित्युपलक्षणं देव्या अपि ॥
अधमम् तुळसी वकुळो वृक्षः चम्पकश्च सरोजिनी । बिल्वकल्हारदमनास्तथा मरुवकं कुशः ॥ दूर्वाहिवल्ल्यपामार्गा विष्णुक्रान्ता मुनिद्रुमः ।
धात्रीयुतानामेतेषां पत्रैः कुर्यात् सुरार्चनम् ॥ इह तुळस्यादीनां पूर्वोक्तानां केषां चित् वकुळादिपत्रप्रायपाठेऽपि नाधमत्वम् । पत्ररित्युपलक्षणं फलस्यापि ॥
पर्युषितकुसुमविचारः भविष्यपुराणे
न पर्युषितदोषोऽस्ति जलजोत्पलचम्पके ।
तुळस्यगस्त्यवकुळे बिल्वे गङ्गाजले तथा ॥ अन्यत्र
तुळस्यां बिल्वपत्रे च जलजेषु च सर्वशः । न पर्युषितदोषोऽस्ति मालाकारगृहेषु च ॥ इति ॥
पर्युषितापवादः पारिजाते
जलं पर्युषितं त्याज्यं पत्राणि कुसुमानि च । तुळस्यगस्त्यबिल्वानि गाङ्गं वारि न दुष्यति ॥ इति.॥

Page Navigation
1 ... 241 242 243 244 245 246 247