Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
अनवस्थोल्लासः सप्तमः-साधारणक्रमः
२२१
२२१
बोपदेवः
बिल्वापामार्गजातीतुळसिशमिशताकेतकीभृङ्गवूर्वा___ कुंदांभोजाहिदर्भा मुनितिलतगरा ब्रह्मकल्हारमम्लः । चम्पा चारातिकुम्भी दमनमरुवका बिल्वतोहानि शस्ताः
त्रिंशस्त्र्यकार्यरीशोदधिनिधिवसुभू भूयसा भूय एवम् ॥ त्रिंशादयो बिल्वप्रभृतीनां दिनसङ्ख्यावाचकाः । मुहुरावाश्च ॥
विहितनिषिद्धानि पाटला च शमीपत्रं दुर्गायास्तु हिताहितम् ॥ विहितनिषिद्धमित्यर्थः ॥
तिलकं मालती बाणस्तुळसी भृङ्गराजकम् । तमालं शिवदुर्गाथै निषिद्धविहितं भवेत् ॥ बाणो भाषया करसाला ॥
जयः काशः श्वेतपद्मं श्वेतमन्दारकं तथा । दुर्गायाश्चैव विष्णोश्च निषिद्धविहितं भवेत् ॥ जयः जयन्ती ॥
अगस्तिरतिमुक्तं च तिरीटं च हरे हरौ ।
अपामार्गस्य पुष्पं च दुर्गायाश्च हिताहितम् ॥ अतिमुक्तो माधवीलता । तिरीटं लोध्रम् ॥
निषिद्धानि अक्षतानकंधुत्तूरौ विष्णो वार्पयेत् सुधीः ॥ अक्षतनिषेधः सालग्रामपर एव न तु मूर्त्यामिति हेमाद्रिः ॥
बन्धूक केतकी कुन्दं केसरं कुटजं जपाम् । . शकरे नार्पयेत् विद्वान् मालती यूधिकामपि ॥

Page Navigation
1 ... 240 241 242 243 244 245 246 247