Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
नित्योत्सवः कङ्कु कुटजकम् । दुर्गाया विहितानि देवीपुराणे--
ऋतुकालोद्भवैः पुष्पैः मल्लिकाजातिपुष्पकैः । किंशुकैश्चम्पकैश्चैव 'किंकरातैश्च पाटलैः ॥ वकुलेश्चैव मन्दारैः कुन्दपुष्पैस्तिरीटकैः । करवीरार्कपुष्पैश्च शिशुपैश्चापराजितैः ॥ सितै रक्तैस्तथा पीतैः कृष्णैश्चैव चतुर्विधैः । सितरक्तैस्तथा पुष्पैः पद्मश्चापाण्डुरैस्तथा ॥ दमनैः सिन्दुवारैश्च सुरभिमरुवकैस्तथा । मञ्जरीभिः कुशानां च बिल्वपत्रैः सुशोभनैः ॥ रक्तान्वितैस्तथा सर्वैः जलजैः स्थलसम्भवैः । पत्रपुष्पैर्यथान्यायं सर्वोषधिमयैः शुभैः ॥
धान्यानां सर्वपत्रैश्च पुष्पैश्चैव प्रपूजयेत् ॥ इति ॥ रक्तो रक्तवर्णः । बिल्वपत्रैः पूजने राजसूयफलम् । करवीरस्रजा भमिष्टोमफलम् । वकुळसजा वाजपेयफलम् इति प्रयोगपारिजाते पुष्पसारसुधानिधौ च ।
शिवार्चने निषिद्धानि पत्रपुष्पफलानि च ।
तानि देव्याः प्रशस्तानि अनुक्तानि विशेषतः ॥ इति ताराभक्तिसुधाऽर्णवे । रुद्रयामळशक्तियामळयोः
सुन्दरीभैरवीकाळीताराब्रह्मविवस्वताम् । . विना तुळस्या या पूजा सा पूर्णा न कदाचन ॥ सावित्री च भवानी च दुर्गादेवीं सरस्वतीम् ।
योर्चयेत् तुळसीपत्रैः सर्वैः कामैः स ऋध्यति ॥ इति ॥ "बिल्वैर्वा तुळसीपुष्पैः” इति रहस्यनामसाहस्र ललितार्चने स्मर्यते ॥
___ केषांचित्कालावधिः तत्र हेमाद्रौ
पङ्कजं पञ्चरात्रं स्याद्दशरात्रं तु बिल्वकम् ।
तुळस्येकादशाहं तु पुनः प्रक्षाळ्य पूजयेत् ॥ 1 किंकिरा-अ, ब, ब२.

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247