Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 240
________________ अनवस्थोल्लासः सप्तमः-साधारणक्रमः २१९ स्नात्वेति मध्याहस्त्रानोत्तरमानयने निषेधः । निर्गन्धेष्वपि केषां चिदुपादानमुक्तं स्वच्छन्दसारे निर्गन्धपुष्पजातीषु पलाशकुसुमैरपि । जपाबन्धूकपुप्पैश्च मन्दारैरपि पूजयेत् ॥ इति ॥ पुष्पसारसुधानिधौ पुष्पं वस्त्रे न बध्नीयात् शिरसा न वहेद्बुधः । नयेत् पत्रपुटेनैव पाणिनाऽऽलम्ब्य वाग्यतः ॥ आश्वलायन:-- नाग्निना सह पुप्पं वा जलं चान्नं न चानयेत् । जलामिगन्धपुष्पान्नं न मूर्भोऽसेन वाहयेत् ॥ ग्रन्थान्तरे-- देहोपरि धृतं यच्चाप्यधोवस्त्रधृतं च यत् । वामहस्ते धृतं यच्च जलेन क्षाळितं च यत् ॥ देवतास्तन्न गृह्णन्ति पुष्पं निर्माल्यतां गतम् । समित्पुष्पकुशादीनि वहन्तं नाभिवादयेत् ॥ तद्धारी चैव नान्यान् हि निर्माल्यं तत् भवेत्तयोः । शुष्कं पर्युषितं कृष्णं भूमिगं नार्पयेत् सुमम् ॥ चम्पकं कमलं त्यक्त्वा कलिकामपि वर्जयेत् ॥ इति ॥ . सर्वदेवतासाधारणानि विहितानि च भविष्यपुराणे जातीशमीकुशाः कङ्कुमल्लिकाकरवीरजम् । नागपुन्नागकाशोकरक्तनीलोत्पलानि च ॥ चम्पकं वकुळं चैव पद्मं बिल्वं पवित्रकम् । एतानि सर्वदेवानां विहितानि समानि च ॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247