Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 239
________________ नित्योत्सवः विष्णुधर्मोत्तरे धर्मार्जितधनक्रीतैः यः कुर्याद्देवतार्चनम् । उद्धरिष्यत्यसन्देहात् सप्त पूर्वान् तथा परान् ॥ इति विप्रातिरिक्तविषयम् , समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ॥ इति भविष्योक्तेः । अयं च निषेधो ब्राह्मणस्य नित्यार्चन एव, न तु नैमित्तिके काम्ये च ॥ लक्षपुष्पार्चनादौ तु क्रयक्रीतमपीप्यते । इति मन्त्रकोशकारोक्तेः । परोपवनादेः चौर्येणापि कुसुममादेयम् ॥ देवतार्थे च कुसुममस्तेयं मनुरब्रवीत् ॥ इति वचनात् । याचितपुष्पार्चनस्य वराहपुराणे अपराधेषु गणितत्वाच्च याचनमपि जलोपान्त एव निषिद्धम् , तीरादन्यत्र याचने तु न दोष इति प्रयोगपारिजातोक्तेः । तत्रैव स्वजात्याहृतं पुष्पं द्रव्येण आत्मीयं कृत्वा पूजयेदिति । अनेन विप्रस्यापि क्रयक्रीतार्चनाभ्यनुज्ञा दृष्टा ॥ वर्जनीयानि कृमिकीटावपन्नानि शीर्णपर्युषितानि च । स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥ उपहतिस्तु मलादिना। निर्गन्धं केशकीटादिदूषितं चोग्रगन्धकम् । मलिनं तुच्छसंस्पृष्टमाघ्रातं स्वविकासितम् ॥ अशुद्धभाजनानीतं स्नात्वा नीतं च याचितम् ॥

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247