Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 237
________________ नित्योत्सवः अभिषेको यथावाग्धंसतारैर्जप्तेन सहस्रं पाथसा मनुम् । अभिषिञ्चेत वागाद्यैरभिषेकोऽयमीरितः ॥ (ऐं हंसः ॐ इति ॥) विमलीकरणं यथाहरिर्वयन्वितस्तारी वषडन्तो ध्रुवादिकः । सहस्रं तत्पुटं जप्याद्विमलीकरणं मनोः ॥ (ॐ त्रों वषट्+मन्त्रः+वषट् त्रों ॐ ॥) जीवनं यथा स्वधावषट्पुटं जप्यात् सहस्रं जीवने मनुम् ।। (स्वधा वषट्+मन्त्रः+वषट् स्वधा ॥) तर्पणं यथा क्षीराज्ययुतपाथोभिस्तर्पणे तर्पयेन्मनुम् ॥ गोपनं यथा जपेन्मायापुटं मन्त्रं सहस्रं गोपनं हि तत् ॥ (ह्रीं+मन्त्रः+हीम् ॥) आप्यायनं यथा बालातार्तीयबीजेन गगनाद्येन सम्पुटम् । सहस्रं प्रजपेन्मन्त्रमेतदाप्यायनं मतम् ॥ (ह्सौः+मन्त्रः+सौः) संस्कारदशकं प्रोक्तं मनूनां दोषनाशकम् ॥ अस्यार्थः--वि भजे त् तिर्यग्रेखाभिरित्यर्थः । एवं सप्तधा । तत्र पृथुत्रिकोणे योनयोऽल्पानि त्रिकोणानि । नव वे द मि ताः एकोनपञ्चाशत् । ईशा दि ईशानकोणादि । वरुणा व धि स्वाग्रवारुणकोणपर्यन्तम् । देवी मातृकां देवतां स्वोपास्य

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247