Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
अनवस्थोल्लासः सप्तमः साधारंणक्रमः
ऋणधनशोधनप्रकारः
द्विगुणीकृत्य साध्यस्थं स्वरव्यञ्जनमण्डलम् । साधकाख्याजुषा तेन मेळयित्वाऽष्टभिर्हरेत् ॥ शेषः साध्यस्य राशिः स्याद्योजयेत् 'साधकेऽन्यथा । साधकाधिकशेषस्तु ऋणी साध्यः शुभावहः || शोधितो न्यूनशेषस्तु वर्णलक्षजपाच्छुभः ॥ इति ॥
1
साध्यो मन्त्रः, तेन स्वरव्यञ्जनसमुदायेन । अन्यथेति साधकनामगतं स्वरव्यञ्जनसमूहं द्विगुणीकृत्य साध्यगतस्वरव्यञ्जननिकरेण सम्मेळ्य अष्टभिः हरेत् । शेषं साधकराशिं जानीयादित्यर्थः । शोधित इति उक्तेन सिद्धारिक्रमेण शोधितोऽनुकूलो मन्त्रो यदि साधकान्यूनशेषः स्यात्तदा यावत्या वर्णसङ्ख्यया न्यूनता तावल्लक्षजपादिना ऋणमपाकृत्य पुरश्चरणादिकं कुर्यादित्यर्थः । प्रकारान्तराणि चान्यतो ज्ञातव्यानीति दिक् ॥
ऋणीधनीचक्रम् कोष्ठान्येकादशान्येव वेदेन पूरितानि च । अकारादिहकारान्तं लिखेत् कोष्ठेषु तत्त्ववित् ॥ प्रथमं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु । द्वयं द्वयं लिखेत्तत्र विचारे खलु साधक ॥ शेषेष्वेकैकवर्णास्तु क्रमतस्तु लिखेत् सुधीः ।
षट्कालकालवियदग्निसमुद्रवेद
खाकाशशून्यदहनाः खलु साध्यवर्णाः ।
युग्मद्विपञ्चवियदम्बरयुक्शशाङ्क
व्योमाब्धिवेदशशिनः खलु साधकार्णान् ॥
नामाज्झलादकटबाद्गजभुक्तशेषं
ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ॥
·३११
* साधको-अ, भ.
9 अयं खण्डः (श्री) कोश एवोपलभ्यते.

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247