Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 230
________________ अनवस्थोल्लासः सप्तमः साधारणक्रमः मन्त्राणां व्यक्तिविशेषाः पुंस्त्रीनपुंसकाः प्रोक्ता मनवस्त्रिविधा बुधैः । वषडन्ताः फडन्ताश्च पुमांसो मनवः स्मृताः ॥ वौषट्स्वाहाऽन्तिमा नायों हुंनमोन्ता नपुंसकाः ॥ इति ॥ एतेषां विनियोगस्तु — वश्योच्चाटनरोधेषु पुमांसः सिद्धिदायकाः । क्षुद्रकर्मरुजां नाशे स्त्रीमन्त्राः शीघ्रसिद्धिदाः । आभिचारे स्मृताः क्लीबा एवं ते मनवस्त्रिधा ॥ इति ॥ सिद्धारिशोधनप्रकारः अथाशङ्कादीनां बहूनां विचार्यत्वेऽप्यावश्यकमात्रं लिख्यते । तत्र सिद्धारिशोधनप्रकार: ऊर्ध्वाभिश्च तिरश्चीभिः रेखाभिः पञ्च पञ्चभिः । कोष्ठषोडशकं कृत्वा मातृकाणैः प्रपूरयेत् । एकत्रिरुद्रनवदृङ्निगमार्कपंक्ति षण्णागभूपमनुबाणहयेषु तिथ्याम् ॥ काम क्रमादकथप्रभृतीन् मनीषी वर्णान् समालिखतु षोडशषोडशत्रीन् ॥ २०१ अस्यार्थः- -रुद्रः एकादशकोष्ठम् । दृक् द्वितीयम् । निगमाः चतुर्थम् । अर्क: द्वादशम् । पंक्तिः दशमम् । नागः अष्टमम् । भूपः षोडशम् । मन वः चतुर्दशम् । बाणाः पञ्चमम् । हयाः सप्तमम् । तिथिः पञ्चदशम् । कामः त्रयोदशं चेत्यर्थः । एकादितिथ्यन्तेषु कोष्ठेषु प्रथमं क्रमात् अकारादीन् स्वरान् विलिख्य, ततः कादितान्तान्, ततः थादिसान्तान् वर्णान् विलिख्य, ततः प्रथमकोष्ठे तृतीये एकादशे च हळक्षान् विलिखेत् इति ॥ 73 विदितेषु कोष्ठानां चतुष्केषु चतुष्विह । यत्र साधकनामादिवर्णस्तत्सिद्धिसंज्ञकम् ॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247