Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 229
________________ २०४ नित्योत्सवः पितुरित्युपलक्षणं मातामहादीनामपि । प्रायश्चित्तं तु अयुतसावित्रीजपः सर्वत्र, तथा दर्शनात् । सिद्धमन्त्रग्रहणे तु नायं निषेधः ॥ तथा च सिद्धयामळे यदि भाग्यवशेनैव सिद्धविद्यां लभेत् प्रिये । तदैव तां तु दीक्षेत त्यक्त्वा गुरुविचारणाम् ॥ इति ॥ "सिद्धमन्त्रो न दुष्यति" इति तन्त्रान्तरवचनाच्च । पुण्यतीर्थे उपरागे सति पित्रादेरपि इष्टमन्त्रो ग्राह्य एव । तथाच वैशम्पायनसंहितायां व्यासवचनं शौनकं प्रति प्रसन्नहृदयः स्वस्थः पिता मे करुणानिधिः । कुरुक्षेत्रे महातीर्थे सूर्यपर्वणि दत्तवान् ॥ इति ॥ प्रकरणात् मन्त्रमिति सम्बध्यते । शैवागमेऽपि भिक्षुभ्यश्च वनस्थेभ्यो वर्णिभ्यश्च महेश्वरि । गृहस्थो भोगमोक्षार्थी मन्त्रदीक्षां न चाचरेत् ॥ त्यक्तामयः क्रियाहीनाः यतयो ह्यपरिग्रहाः । वनस्थास्तादृशा एव वर्णी न्यूनाश्रमी यतः ॥ वर्णी ब्रह्मचारी न्यूनाश्रमी गृहस्थापेक्षया । एवं गृहस्थाद्यतिभिरपि मन्त्रो न ग्राह्य इत्यवगम्यते ॥ वयोमेदेन सिद्धिप्रदा मन्त्राः अथ बाल्ययौवनवार्धक्येषु सिद्धिप्रदाः मन्त्राः क्रमेणबीजमन्त्रास्तथा मन्त्रा मालामन्त्रा इति त्रिधा । बीजमन्त्रा दशार्णान्तास्ततो मन्त्रा नखावधि ॥ विंशत्यधिकवर्णा ये मालामन्त्रास्तु ते स्मृताः ॥ इति ॥ एत एव अवस्थान्तरेष्वपि द्विगुणजपात् सिध्यन्ति ।

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247