Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
२०६
नित्योत्सवः प्रत्येकमिति च पदं उत्तरत्राप्यनुषज्यते । त्रि बीज कं ,यादिबीजत्रययुक्ता इत्यर्थः । बीजद्वयं कामबीजवाग्भवयुक्ता इत्यर्थः । ए क मिति वाग्भवबीजयुक्ता इत्यर्थः ॥
अथ मन्त्रविशेषाणां अधिकारिणः । कुलमूलावतारे
उमामहेश्वरं चैव दक्षिणामूर्त्यघोरकम् । हयग्रीवं च वाराहमष्टाक्षरमतः परम् ॥ प्रणवाद्य वासुदेवं लक्ष्मीनारायणं तथा । वर्णत्रये तु दातव्यं नान्यवर्णे कदाचन ॥ नारसिंहं पाशुपतं तथा चैव सुदर्शनम् । वर्णद्वये च दातव्यं नान्ययोश्चैव कर्हिचित् ॥ अमिमन्त्राश्च ये केचित् सूर्यमन्त्राश्च ये तथा । ' तारादिघृणिमन्त्राश्च दातव्याश्च त्रिवर्णके ॥ आनुष्टुभं शक्तिमन्त्रास्तथा विन्ध्यनिवासिनी । समनीलसरस्वत्या दातव्याश्चादिवर्णके ॥ मातङ्गिन्युग्रतारा च काळिका श्यामळा तथा । छिन्नमस्ता च बाला च दातव्या सर्ववर्णके ॥ तारादिस्तु गणेशस्य हरिद्रासंज्ञकस्तथा । त्रिवर्णेष्वेव दातव्यः कथितः सर्वसिद्धिदः ॥ त्रिपुरायाश्च ये मन्त्राः ये मन्त्रा वटुकादयः । सर्ववर्णेषु दातव्याः पुरन्ध्रीणां विशेषतः ॥ हृदादिहुंफट्कारादि सङ्कराणां प्रशस्यते ॥ इति ॥
कलौ सिद्धमन्त्राः अथ कलौ सिद्धमन्त्राःव्यर्ण एकाक्षरोऽनुष्टुप् त्रिविधो नरकेसरी । एकाक्षरोऽर्जुनोऽनुष्टुद्विविधस्तुरगाननः ॥ चिन्तामणिः क्षेत्रपालो भैरवो यक्षनायकः । गोपालो गजवक्त्रश्च चेष्टका यक्षिणी तथा ॥

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247