Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 226
________________ २०५ अनवस्थोल्लासः सप्तमः-साधारणक्रमः इति श्रीभासुरानन्दनाथान्तेवासिना शुभा। कृतोमानन्दनाथेन साधकश्रेयसे स्तुतिः ॥ सुवासिनीपूजादि विशेषाय॑विसर्जनान्तम् अथ श्रीक्रमोक्तेन क्रमेण पञ्चमवर्ज यथार्हपञ्चमसहितं वा सुवासिनीपूजनम् , तत्त्वत्रयशोधनम् , हविःप्रतिपत्तिं च निवर्त्य, मूलेन देवतामावाहनविलोमक्रमेण आत्मन्युद्वास्य, विशेषाय॑ विसृजेत् ॥ मनसाधनम् एवं नित्यसपर्यो कुर्वन् श्यामाक्रमोक्तेन क्रमेण पुरश्चरणजपं तत्तत्कल्पोक्तसङ्ख्याकं, अनुक्तावक्षरलक्षसङ्ख्याकं, कलौ तच्चतुर्गुणितं, प्रत्यहं त्रिसहस्रादिक्रमेण कृत्वा, होमतर्पणब्राह्मणभोजनानि तत्तद्दशांशं कुर्यात् । होमश्च द्रव्यविशेषादर्शने आज्येनैव । अथ सिद्धमन्त्रः श्रीक्रमोक्तेन क्रमेण नैमित्तिकाचनपरो यदि काम्यमभिलषेत् तदुक्तप्रकारेण जपादिकं विदध्यात् ॥ इति सर्वदेवतासाधारणक्रमः ॥ मत्राणां जातिनिर्णयः अधिकारिभेदश्च अत्रोपदेश्यानां मन्त्राणां सामान्यतो जातिनिर्णयोऽधिकारिभेदश्च निरूप्यते । सौमिलन् मायाबीजं ब्राह्मणः स्याच्छीबीजं क्षत्रियः स्मृतम् । कामबीजं भवेद्वैश्यो वाग्भवं शूद्र ईरितम् ॥ चतुर्बीजपरित्यक्तो मन्त्रः पौलस्त्यसंज्ञकः । चतुर्बीजं ब्राह्मणानां क्षत्रियाणां त्रिबीजकम् ॥ बीजद्वयं तु वैश्यानां शूद्राणां त्वेकबीजकम् ॥ इति ॥ अस्यार्थः-मा ये ति हृल्लेखा। श्रीकामबीजवाग्भवैः प्रत्येकं सम्बद्धा मन्त्राः क्रमेण ब्राह्मणादयः स्युः इत्यर्थः । चतुर्बी जप रित्यक्तः उक्तबीजचतुष्टयरहितः । चतु रिति प्रत्येकं प्रणवादिबीजचतुष्टयसम्बद्धाः मन्त्राः इत्यर्थः । दातव्या इति शेषः । इदं च पदं

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247