Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library
View full book text
________________
अनवस्थोल्लासः सप्तमः साधारणक्रमः
सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः ॥
हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनाय सपरिवाराय नमः ॥
इत्यभ्यर्च्य ॥ इति पञ्चमावरणम् ॥
२०३
देवतायाः पुनःपूजा
अथ पुनर्मूलेन देवतां त्रिः सन्तर्प्य, पुनः धूपदीपनैवेद्यताम्बूलानि दत्वा ॥
होम:
सति सम्भवे श्रीक्रमे होमप्रकरणोक्तेन क्रमेण स्थण्डिलकल्पनादिप्रधानदेवतापञ्चोपचारान्ते - ६ इच्छायै स्वाहा इच्छाया इदं न मम इत्यादिरीत्या – आवरणदेवताक्रमेण इच्छाऽऽदिभ्यः ईशानान्ताभ्यो देवताभ्यः एकैकामाज्याहुतिं मूलेन प्रधानदेवतायै दशवारं च हुत्वा विधिशेषं निर्वर्तयेत् ॥
होमाकरणपक्षे बलिमात्रं दद्यात् । यथा - देवताया दक्षिणतः त्रिकोणवृत्त - चतुरश्रात्मकं मण्डलं कृत्वा, ६ ऐं व्यापकमण्डलाय नमः इति पुष्पैरभ्यर्च्य, अर्धभक्तपूरितोदकं सक्षीरादित्रयं पात्रं तत्र विन्यस्य, ६ ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् स्वाहा इति मन्त्रं त्रिः पठित्वा, बलिं प्रदाय, दक्षकरार्पितं वामकरतत्त्वमुद्रास्पृष्टं क्षीरं बल्युपरि निषिच्य समुदञ्चितवक्त्रः ताळत्रयं कुर्वन् बाणमुद्रया बलिं भूतैः ग्राहयित्वा योनिमुद्रया प्रणमेत् इति ॥
प्रदक्षिणनतिमूलमब्रजपाः
अथ प्रक्षाळितपाणिः प्रदक्षिणनतीर्विधाय तत्तत्तन्त्रोक्तर्घ्यादिन्यासत्रयकराङ्गन्यासध्यानान्ते देवतायै पुष्पाञ्जलिं दत्त्वा, मूलमष्टोत्तरशतवारं जप्त्वा, पुनर्न्यासादि कृत्वा, गुह्यातिगुह्येति मन्त्रेण देवतावामहस्ते सामान्यजलेन जपं समर्पयेत् । देवतापुंस्त्वे तु गोप्ता त्वं देवेति वाच्यम् । देव्या वामकरो देवस्य दक्षकरश्च जपसमर्पणाधिकरणम् ॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247