Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 220
________________ अनवस्थोल्लासः सप्तमः -- साधारणक्रमः ऐं ह्रीं श्रीं ऐं क्लीं सौः भद्रकाळ्यै नमः, भैरवाय नमः, प्राणायामः १९९ लम्बोदराय नमः ॥ इति तित्रो द्वारदेवताः सम्पूज्य, अन्तः प्रविष्टः ६ रक्त द्वादशशक्तियुक्ताय दीपनाथाय नमः इति पुष्पाञ्जलिना भूमौ दीपनाथमिष्ट्वा, सपर्यासामग्री स्वस्य दक्षिणतो निधाय, दीपानभितः प्रज्वाल्य, दीपौ वा, गन्धमाल्यादिभिः अलङ्कृतात्मा ताम्बूलेन जातीपत्रफललवङ्गैलाकर्पूराख्यपञ्चतिक्तेन वा सुरभिळवदनः प्रसन्नचेताः स्वास्तीर्णे ऊर्णामृदुनि शुचिनि बालातृतीयबीजेन द्वादशवारमभिमन्त्रिते मूलमन्त्रोक्षिते आसने ६ आधारशक्तिकमलासनाय नमः इति प्राङ्मुख उदङ्मुखो वा पद्मस्वस्तिकाद्यन्यतमेनासनेनोपविश्य, ६ समस्तगुप्तप्रकटसिद्धयोगिनीचक्रदेवता श्रीपादुकाभ्यो नमः इति मूर्धनि बद्धाञ्जलिः स्ववामदक्षपार्श्वयोः क्रमेण, ६ गुं गुरुभ्यो नमः, ६ गं गणपतये नमः, इति श्रीगुरुं गणपतिं च प्रणम्य, ६ ऐं ह्रः अस्त्राय फट् इति मन्त्रेण मुहुर्मुहुरावृत्तेन अङ्गुष्ठादिकरतलान्तं कूर्परयोश्च विन्यस्य, देहे च व्यापकं कृत्वा, आत्मनो देवतैक्यं भावयन्, ६ " अपसर्पन्तु ” इति मन्त्रं सकृदुच्चार्य, युगपद्वामपाणिभूतलत्रिराघातकरास्फोटत्रितयक्रूरदृष्ट्यवलोकनपूर्वकं ताळत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् । ताळत्रयं तूक्तमेव ॥ ततो ६ नमः इत्यङ्गुष्ठमन्त्रमुच्चार्य, 'अंकुशेन शिखां बध्वा, श्रीक्रमोक्तक्रमेण भूतशुद्धिं आत्मप्राणप्रतिष्ठां च विधाय मूलेन प्रागुक्तवद्विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा प्राणानायम्य ॥ " माकाषडंगन्यासौ तेजोमयदेवतारूपं भावयन् आत्मानं त्रितारीबालापूर्वकं मातृकान्यासं तन्त्रान्तरोक्तं तत्तद्देवताषडङ्गन्यासं च कृत्वा, अनुक्तौ तु ६ ह्रां हृदयाय नमः, ६ ह्रीं शिरसे स्वाहा, ६ ह्रूं शिखायै वषट्, ६ हैं कवचाय हुम्, ६ ह्रौं नेत्रत्रयाय वौषट्, ६ हः अस्त्राय फट् इति षडङ्गं न्यस्य ॥ 1 ' कुशेन' इति बहुकोशपाठः. १ करषडंगन्यासौ कृत्वा— अ०

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247