Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 218
________________ १९७ उन्मनोल्लासः षष्ठः-परापद्धतिः इति मन्त्रैः तत्त्वत्रयशोधनपूर्वकं हविःशेषं स्वीकृत्य, मूलेन देवी विसृज्य, तेनैव ब्रह्मरन्धं नीत्वा विशेषार्घ्यपात्रमामस्तकमुद्धत्य, “आर्दै ज्वलति" इति मन्त्रेण तदर्घ्यमात्मनः कुण्डलिन्यगौ हुत्वा कामकलाऽऽत्मकं देवीरूपं भावयन्नात्मानं कृतकृत्यो भवेत् ॥ मत्रसाधनम् एवं नित्यक्रमं निवर्तयन् श्यामाक्रमोक्तक्रमेण लक्षजपं पुरश्चरणं कलौ तञ्चतुर्गुणितं प्रत्यहमयुतसङ्ख्यया ग्रहणादिजपप्रत्याम्नायान्वा कृत्वा, होमतर्पणब्राह्मणभोजनानि क्रमेण दशांशतः कुर्यात् । होमद्रव्यस्य तन्त्रान्तरेष्वदर्शनात् , आज्यमेव । ततः सिद्धमनुः काम्यलिप्सुर्यदि श्यामाक्रमोक्तैरेव द्रव्यैः हुत्वा पूर्णमनोरथः सुखी विहरेत् । एतदेकविश्रान्तिमभिलषतोऽपि अयमेवोपास्तिक्रमः इति शिवम् ॥ इति भासुरानन्दनाथचरणारविन्दमिळिन्दायमानमानसेन उमानन्दनाथेन निर्मिते अभिनवे कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे पराक्रमनिरूपणो नाम उन्मनोल्लासः षष्ठः सम्पूर्णः ॥

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247