________________
१९७
उन्मनोल्लासः षष्ठः-परापद्धतिः इति मन्त्रैः तत्त्वत्रयशोधनपूर्वकं हविःशेषं स्वीकृत्य, मूलेन देवी विसृज्य, तेनैव ब्रह्मरन्धं नीत्वा विशेषार्घ्यपात्रमामस्तकमुद्धत्य, “आर्दै ज्वलति" इति मन्त्रेण तदर्घ्यमात्मनः कुण्डलिन्यगौ हुत्वा कामकलाऽऽत्मकं देवीरूपं भावयन्नात्मानं कृतकृत्यो भवेत् ॥
मत्रसाधनम् एवं नित्यक्रमं निवर्तयन् श्यामाक्रमोक्तक्रमेण लक्षजपं पुरश्चरणं कलौ तञ्चतुर्गुणितं प्रत्यहमयुतसङ्ख्यया ग्रहणादिजपप्रत्याम्नायान्वा कृत्वा, होमतर्पणब्राह्मणभोजनानि क्रमेण दशांशतः कुर्यात् । होमद्रव्यस्य तन्त्रान्तरेष्वदर्शनात् , आज्यमेव । ततः सिद्धमनुः काम्यलिप्सुर्यदि श्यामाक्रमोक्तैरेव द्रव्यैः हुत्वा पूर्णमनोरथः सुखी विहरेत् । एतदेकविश्रान्तिमभिलषतोऽपि अयमेवोपास्तिक्रमः इति शिवम् ॥
इति भासुरानन्दनाथचरणारविन्दमिळिन्दायमानमानसेन उमानन्दनाथेन
निर्मिते अभिनवे कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे पराक्रमनिरूपणो नाम उन्मनोल्लासः षष्ठः सम्पूर्णः ॥