________________
नित्योत्सवः
परास्तुतिः यथा--- याऽघोरादिभिरेतैः पारम्पर्यक्रमागतै थैः । प्रथते तां विश्वमयीं विश्वातीतां स्वसंविदं नौमि ॥ १ ॥ आनन्दचरणकमलामकळङ्कशशाङ्कमण्डलच्छायाम् । तन्मण्डलाधिरूढां तत्कलया कलितचित्कलां नौमि ॥ २ ॥ इच्छादिशक्तिशूलांबुजमूलां मूलकुण्डलीरूपाम् । नित्यामप्यणुरूपामणोश्च महतो महीयसीं नौमि ॥ ३ ॥ मौक्तिकमणिगणरुचिरां शशाङ्कनिर्मोकनिर्मलं क्षौमम् । निवसानां परमेशी नमामि सौवर्णसम्पुटान्तःस्थाम् ॥ ४ ॥ भक्तजनभेदभञ्जनचिन्मुद्राकलितदक्षपाणितलाम् । पूर्णाहन्ताकारणपुस्तकवर्येण रुचिरवामकराम् ॥ ५ ॥ सृष्टिस्थितिलयकृद्भिर्नयनाम्भोजैश्शशीनदहनाख्यैः । मौक्तिकताटङ्काभ्यां मण्डितमुखमण्डलां परां नौमि ॥ ६ ॥ षड्गतिषडूर्मिषडरीन् धिक्कृत्याशु स्वभक्तवर्गस्य । कञ्चुकपञ्चकनोदनसञ्चितसंवित्प्रकाशिनी नौमि ॥ ७ ॥ अध्वातीतं बुद्धवा बुधाः प्रबुद्धाः परं पदं यस्याः । कैवल्यं यान्ति हठात् कटाक्षपातेन तां परां नौमि ॥ ८ ॥ यः पठतीदं स्तोत्रं पात्रं स भवेच्च पञ्चवर्गस्य ।
गुरुचरणकमलभाजा सहजानन्देन योगिनाऽभिहितम् ॥ ९॥ इति परास्तुतिः सम्पूर्णा ॥
हविःशेषस्वीकरण: अथसौः आत्मतत्त्वं शोधयामि नमः स्वाहा ॥ सौः विद्यातत्त्वं शोधयामि नमः स्वाहा ॥ सौः शिवतत्त्वं शोधयामि नमः स्वाहा ॥