________________
अनवस्थोल्लासः सप्तमः-साधारणक्रमः
उपोद्धातः नत्वा श्रीभासुरानन्दनाथपादाम्बुजद्वयम् । नन्दत्युमानन्दनाथोऽनवस्थोल्लासकल्पनात् ॥ साधारणो यत्र सर्वोपास्यानां क्रम ईरितः । आरम्भोल्लासगीता स्यादिह दीक्षा पृथक् पृथक् ॥ सत्रितार्या बालया च सर्वेऽङ्गमनवो मताः । मन्त्रेऽनुक्तषडङ्गे तु मायाषड्दीर्घजातियुक् ॥
तत्र तावदुक्तगुणः साधकः उक्ते काले सद्गुरोः अवाप्तदीक्षाविधिः एतत्क्रमान्ते वक्ष्यमाणेन प्रकारेण शोधितसिद्धसाध्यारिभावं अवमृष्टऋणधनादिकं च स्वेष्टमन्त्रमासाद्य तत्प्रतिपाद्यदेवताक्रमं यावज्जीवं निवर्तयेत् ॥
___ काल्यकृत्यं आह्निकं च इह प्रकृतिभूतात् श्रीक्रमतः काल्यकृत्याह्निकयोः विशेषो यथाश्रीगुरुपादुकायामादौ त्रितायुत्तरं बाला वाक् ग्लौमिति पञ्चबीजयोजनम् , हृदि रविबिम्बे च तत्तद्देवताध्यानम् , रश्मिस्रगननुस्मरणम् , यथोचितं तत्र तत्र सम्बुद्ध्यादीनामूहः, मूलेनार्घ्यदानम् , तन्त्रान्तरोक्तं तत्तदृष्यादिन्यासत्रयं षडङ्गं च, अनुक्तौ तु वक्ष्यमाणं चेति ॥
यागमन्दिरप्रवेशः अथ यागमन्दिरमागत्य, द्वारस्थण्डिलं गोमयेनोपलिप्य, देवताऽऽयतनं च रङ्गवल्लीपुष्पमालावितानादिभिश्वालङ्कृत्य, द्वारस्य दक्षवामशाखयोरूर्वभागे च क्रमेण