Book Title: Parsuram Kalpasutra Part 02
Author(s): A Mahadev Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 182
________________ १६१ प्रौढोल्लासः चतुर्थः-श्यामाक्रमः नचैवापूज्य भुञ्जीत शिवलिङ्गं महेश्वरि । सूतके मृतके चापि न त्याज्यं शिवपूजनम् ॥ इति लिङ्गपुराणे । पराशरोऽपि उपासने तु विप्राणामङ्गशुद्धिः प्रजायते ॥ इति च । एवमन्यान्यपि वचनानि तन्त्रान्तरेषु बहुलं उपलभ्यमानानि विस्तरभयान्नेह लिखितानि । सूतकाढौ नैमित्तिककाम्ययोः अनधिकार एव, साधकम्य प्रतिबन्धकबाहुल्यात् ॥ सिद्धिपर्यन्तं पुरश्चरणस्य अभ्यासः एकेन पुरश्चरणेन यदि न मन्त्रः सिध्यति तदा तस्य द्वयं त्रयं वा कुर्यात् । तथाऽपि तदसिद्धौ सिद्धिकारकाः प्रयोगाः ग्रन्थान्तरोक्ताः ग्राह्याः । सिद्धिसूचकानि चान्यतो ज्ञेयानि. इह तु विस्तरभयान्न लिखितानि ॥ सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन हि । सर्वे मन्त्राश्च सिध्यन्ति तत्प्रभावात् कुलेश्वरि ॥ सम्य सिद्धैकमन्त्रस्य नासाध्यं विद्यते क्वचित् । बहुमन्त्रवतः पुंसः का कथा शिव एव सः ॥ अतः पुरश्चरणमावश्यकमिति ॥ __ पुरश्चरणप्रत्याम्नायाः अथ सङ्गत्या पुरश्चरणप्रत्याम्नायाः कतिचित् लिख्यन्ते । शशिसूर्योपरागे त्रिरात्रमेकरात्रं वा पूर्वमुपोष्य एक भुक्तं वा विधाय ग्रहणारम्भे घटिकार्धात् प्रागेव स्वातः समुद्रगाया नद्यास्तटाकादेर्वा नाभिमात्रजले तिष्ठन् , अशक्तौ तु तट एवोपविष्टः, आचम्य, प्राणानायम्य, देशकालौ सङ्कीर्त्य, ॐ अमुकराशिगते सवितरि सोमस्य सूर्यस्य वा ग्रहणे अमुकगोत्रोऽमुकशर्मवर्मादिरहं अमुकविद्यासिद्धिकामः स्पर्शमारभ्य विमुक्तिपर्यन्तं जपं करिप्य इति सङ्कल्प्य जपेत् । ततोऽपरेद्युः 1 भक्तं-ब२, ३.

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247